श्रीगरुडमहापुराणम् २३६ श्रीभगवानुवाच । आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः । अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १,२३६.
अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् । अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १,२३६.
सद्विचारकुठारेण च्छिन्नसंसारपादपः । ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम् ॥ १,२३६.
जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते । अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १,२३६.
नामरूपक्रियाहीनं सर्वं तत्परमं पदम् । जगत्कृत्वेश्वरोऽनन्तं स्वयमत्र प्रविष्टवान् ॥ १,२३६.
वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् । सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १,२३६.
श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम् । यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते ॥ १,२३६.
त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा । द्विविधं वेदवचनं कुरु कर्म त्यजेति च ॥ १,२३६.
यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये । अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन ॥ १,२३६.
एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम् । योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः ॥ १,२३६.
कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद्भवेत् । आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतोऽन्यथा ॥ १,२३६.
यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः । तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १,२३६.
व्यापकत्वात्कथं याति को याति क्व स याति च । अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥ १,२३६.
अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः । एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥ १,२३६.
कथमाकाशकल्पस्य गतिरागतिसंस्थिति । जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥ १,२३६.
वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकम् । यथा ते प्रियात्मा नः सर्वेषां च तथा प्रियः ॥ १,२३६.
बोधमार्गे यथा चित्तं सर्वेषां च तथा मते । सर्वदा सर्वभूतानां सर्वस्य च महामुने ॥ १,२३६.
नाहमत्रात्मविज्ञानं तस्मात्पूर्णं निरन्तरम् । जाग्रत्स्वप्नं तथा वृत्तं सौषुप्तसुखमेव च ॥ १,२३६.
स्मरणं विस्मृतार्थस्य नास्ति चेत्कस्य जायते । सत्यमस्तु तथा वाणु अशरीरं परं तथा ॥ १,२३६.
नास्ति चेत्सुखदुः खानां सर्वेषां वेदनं कथम् । सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये न येत् ॥ १,२३६.
साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम् । सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक् ॥ १,२३६.
नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक् । त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम् ॥ १,२३६.
अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत् । यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम् ॥ १,२३६.
यथैकहेममणिना सर्वं हेममयं भवेत् । ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत् ॥ १,२३६.
यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते । यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते ॥ १,२३६.
सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम् । व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते ॥ १,२३६.
प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते । व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा ॥ १,२३६.
तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा । मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत् ॥ १,२३६.
हाहिष्णोद्विजा कथि द्भोहमितिदृ । ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा ॥ १,२३६.
मायाविष्टस्तथा जीवो देहोहमिति मन्यते । मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते ॥ १,२३६.