मनस्तन्मयतां याति समाधिस्थः स कीर्तितः । चित्तस्य स्थिरता भ्रान्तिर्दैर्मनस्यं प्रमादता ॥ १,२३५.
योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः । स्थित्यर्थं मनसः सर्वं स्थूलरूपं विचिन्तयेत् ॥ १,२३५.
तद्व्रतं निश्चलीभूतं सूय्यस्थं स्थिरतां व्रजेत् । न विना परमात्मानं किञ्चिज्जगति विद्यते ॥ १,२३५.
विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति । ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ॥ १,२३५.
क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितम् । हृदि सञ्चिन्तयेत्पूर्वं प्रधानं तस्य चोपरि ॥ १,२३५.
तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् । कृष्णरक्तसितं तस्मिन्पुरुषं जीवसंज्ञितम् ॥ १,२३५.
तस्योपरि गुणैश्वर्यमष्टपत्रं सरोरुहम् । ज्ञानं तु कर्णिका तत्र विज्ञानं केसराः स्मृताः ॥ १,२३५.
वैराग्यनालं तत्कन्दो वैष्णवो धर्म उत्तमः । कर्णिकायां स्थितं तत्र जीववन्निश्चलं विभु ॥ १,२३५.
ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् । ध्यायन्यदि त्यजेत्प्राणान्याति ब्रह्म स्वसन्निधिम् ॥ १,२३५.
हरिं संस्थाप्य देहाब्जे ध्यायन्यो गी च भक्तिभाक् । आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥ १,२३५.
सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः । ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥ १,२३५.
तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः । जितेन्द्रियात्मकरणो ज्ञानदृप्तो हि यो भवेत् ॥ १,२३५.
स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः । आसनस्थानविधयो न योगस्य प्रसाधकाः ॥ १,२३५.
विलम्बजनकाः सर्वे विस्तराः परिकीर्तिताः । शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ १,२३५.
योगाभ्यासं प्रकुर्वन्तः पस्यन्त्यात्मानमात्मना । सर्वभूतेषु कारुण्यं विद्वेषं विषयेषु च ॥ १,२३५.
गुप्तशिश्रोदरादिश्च कुर्वन्योगी विमुच्यते । इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥ १,२३५.
काष्ठवद्ब्रह्मसंलीनो योगी मुक्तस्तदा भवेत् । सर्ववर्णाः श्रियः सर्वाः कृत्वा पापानि भस्मसात् ॥ १,२३५.
ध्यानाग्निना च मेधावी लभते परमां गतिम् । मन्थनाद्दृश्यते ह्यग्निस्तद्वद्ध्यानेन वै हरिः ॥ १,२३५.
ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः । बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १,२३५.
साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च । प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते । अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ॥ १,२३५.
श्रीगरुडमहापुराणम् २३६ श्रीभगवानुवाच । आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः । अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १,२३६.
अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् । अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १,२३६.
सद्विचारकुठारेण च्छिन्नसंसारपादपः । ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम् ॥ १,२३६.
जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते । अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १,२३६.
नामरूपक्रियाहीनं सर्वं तत्परमं पदम् । जगत्कृत्वेश्वरोऽनन्तं स्वयमत्र प्रविष्टवान् ॥ १,२३६.
वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् । सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १,२३६.
श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम् । यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते ॥ १,२३६.
त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा । द्विविधं वेदवचनं कुरु कर्म त्यजेति च ॥ १,२३६.
यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये । अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन ॥ १,२३६.
एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम् । योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः ॥ १,२३६.