तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत् हरिरुवाच 2.
अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः 2.
अहं हि पूजितो रुद्र ! ददामि परमां गतिम् 2.
जगत्स्थितेरहं बीजं जगत्कर्त्ता त्वहं शिव ! 2.
अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् 2.
स्वर्गादीनां च कर्त्ताहं स्वर्गादीन्यहमेव च 2.
ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च 2.
ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च 2.
सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव ! 2.
अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम् 2.
यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च 2.
पुरा मां गरुडः पक्षी तपसाराधयद्भुवि 2.
मम माता च विनता नागैर्दासीकृता हरे 2.
दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव 2.
पुराणसंहिताकर्त्ता यथाऽहं स्यां तथा कुरुं विष्णुरुवाच 2.
नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि 2.
महाबलो वाहनस्त्वं भविष्यसि विषार्दनः 2.
यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति 2.
यथाहं देवदेवानां श्रीः ख्यातो विनतासुत 2.
यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना 2.
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते 2.
स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत् गरुडोक्तं गारुडं हि श्रृणु रुद्र ! मदात्मकम् ।। 2.
इति रुद्राब्जजौ विष्णोः शुश्राव ब्रह्मणो मुनिः 3.
मुनीनां श्रृण्वतां मध्ये सर्गाद्यं देवपूजनम् 3.
वर्णाश्रमादिधर्माश्च दानराज्यादिधर्मकाः 3.
अंगानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् 3.
पुराणे गारुडे सर्वं गरुडो भगवानथ 3.
भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम् 3.
चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः 3.
कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः 3.