आरूढयोगवृक्षाणां ज्ञानं त्यागं परं मतम् । ज्ञातुमिच्छति शब्दादीन्रागो द्वेषोऽथ जायते ॥ १,२३५.
लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् । हस्तावुपस्थमुदरं वाक्चतुर्थो चतुष्टयम् ॥ १,२३५.
एतत्सुसंयतं यस्य स विप्रः कथ्यते बुधैः (धः) । परवित्तं न गृह्णाति न हिंसां कुरुते तथा ॥ १,२३५.
नाक्षक्रीडारतो यस्तु हस्तौ तस्य सुसंयतौ । परस्त्रीवर्जनरतस्तस्योपस्थं सुसंयतम् ॥ १,२३५.
अलोलुपमिदं भुङ्क्ते जठरं तस्य संयतम् । सत्यं हितं मितं ब्रूते यस्माद्वाक्तस्य संयता ॥ १,२३५.
यस्य संयतान्येतानि तस्य किं तपसाध्वरैः । ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणां च सर्वदा ॥ १,२३५.
सबीजं वापि निर्बोजं ध्यानमेतत्प्रकीर्तितम् । भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ॥ १,२३५.
हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ॥ १,२३५.
स्वप्नान्पश्यत्यसौ जीवो बाह्यानाभ्यन्तरानथ । जीवो जाग्रदवस्थायामेवमाहुर्विपाश्चितः ॥ १,२३५.
हृदि स्थितः स तमसा मोहितो न स्मरत्यपि । यदा तस्य कुतो वेति सुषुप्तिरिति कथ्यते ॥ १,२३५.
जाग्रतो यस्य नो तन्द्रा न मोहो न भ्रमस्तथा । उत्पद्यते न जानाति शब्दार्थविषयान्वशी ॥ १,२३५.
इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा । बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥ १,२३५.
संयम्य प्रकृतिं चापि चिच्छक्त्या केवले स्थितः । पश्यत्यात्मानि चात्मानमात्मनात्मप्रकाशकम् ॥ १,२३५.
चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् । तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥ १,२३५.
शब्दादयो गुणाः पञ्च सत्त्वाद्याश्च गुणास्त्रयः । पुर्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥ १,२३५.
साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका । कर्णिकायां स्थितो देवो देही चिद्रूप एव हि ॥ १,२३५.
पुर्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् । यदा याति तदा जीवो याति मुक्तिं न संशयः ॥ १,२३५.
प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा । ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥ १,२३५.
पापक्षये देवतानां प्रीतिरिन्द्रियसंयमः । जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥ १,२३५.
षट्त्रिंशन्मात्रकः श्रेष्ठश्चतुर्विंशतिमात्रकः । मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेत् ॥ १,२३५.
वाचके प्रणवे ज्ञाते वाच्यं ब्रह्म प्रसीदति । (ओंनमो विष्णवे).षष्ठाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरी ॥ १,२३५.
सर्वेषामिन्द्रियाणां तु प्रवृतिर्विषयेषु च । निवृत्तिर्मनसस्तस्याः प्रत्याहारः प्रकीर्तितः ॥ १,२३५.
इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य हितो हि सः । सहसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥ १,२३५.
प्राणायामैर्द्वादशभिर्यावत्कालःकृतो भवेत् । यस्तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ १,२३५.
ध्यायन्न चलते यस्य मनोभिध्यायतो भृशम् ॥ १,२३५.
प्राप्यावधिकृतं कालं यावत्सा धारणा स्मृता । ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ॥ १,२३५.
नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम् । ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ॥ १,२३५.
यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः । ध्येयमेव हि सर्वत्र ध्याता तन्मयतां गतः ॥ १,२३५.
पश्यति द्वैतरहितं समाधिः सोऽभिधीयते । मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १,२३५.
यस्य ब्रह्मणि संलीनं समाधिस्थं तदोच्यते । ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ॥ १,२३५.