अवतारेषु या मूर्तिर्विदूरे देव दृश्यते । परं भावंमजानन्तस्त्वां भजन्ति दिवौकसः ॥ १,२३४.
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम । अराधयितुमीशान मनोगम्यमगोचरम् ॥ १,२३४.
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः । पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥ १,२३४.
संकर्षणादिभेदेन तव यत्पूजिता मया । क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥ १,२३४.
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम् । यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥ १,२३४.
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम् । दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥ १,२३४.
अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम । शरिरे न (ण) तथा प्रीतिर्न च धर्मादिकेषु च ॥ १,२३४.
यथा त्वयि जगन्नाथ प्रीतिंरात्यन्तिकी मम । किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥ १,२३४.
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे । पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥ १,२३४.
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते । इति चक्रधारस्तोत्रं मया सम्यगुदाहृतम् । स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥ १,२३४.
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्घुरुम् ॥ १,२३४.
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम् । अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥ १,२३४.
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात् । पुत्रार्थो लभते पुत्रान्बद्धो मुच्यते बन्धनात् ॥ १,२३४.
रोगाद्विमुच्यते रागी लभते निर्धनो धनम् । विद्यार्थो लभते विद्यां भग्यं कीर्ति च विन्दति ॥ १,२३४.
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा । स धन्यः सर्ववित्प्राज्ञःस साधुः सर्वकर्मकृत् ॥ १,२३४.
स सत्यवाकूछुचिर्दाता यः स्तौति पुरुषोत्तमम् । असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥ १,२३४.
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया । न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥ १,२३४.
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी । आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥ १,२३४.
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम् । कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः । असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥ १,२३४.
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी । तमजममृतमीशं वासुदेवं नतोऽस्मि भयमरणविहीनं नित्यमानन्दरूपम् ॥ १,२३४.
निखिलभुवन नाथं शाश्वतं सुप्रसन्नं त्वतिविमलविशुद्धं निर्गुणं भवपुष्पैः । सुखमुदितसमस्तं पूजयाम्यात्मभावं विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा ॥ १,२३४.
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः । तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक् ॥ १,२३४.
बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम् । सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति ॥ १,२३४.
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः । स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥ १,२३४.
यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम् । स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥ १,२३४.
विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम् । यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः ॥ १,२३४.
श्रीगरुडमहापुराणम् २३५ सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् । अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ॥ १,२३५.
सूर्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् । यथा सर्पिः शीरस्थं गवां न कुरुते बलम् ॥ १,२३५.
निर्गतं कर्मसंयुक्तं दत्तं तासां महा बलम् । तथा विष्णुः शरीरस्थो न करोति हितं नणाम् ॥ १,२३५.
विनाराधनया देवः सर्वगः परमेश्वरः । आरुरुक्षुमतीनां तु कर्मज्ञानमुदाहृतम् ॥ १,२३५.