गन्धर्वाप्यरसः सिद्धाः पितरस्त्वं महामराः । भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च ॥ १,२३४.
मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशाः ॥ १,२३४.
त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः । त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः ॥ १,२३४.
ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः । त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम् ॥ १,२३४.
त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः । त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः ॥ १,२३४.
दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः । देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम् ॥ १,२३४.
यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत् । तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम् ॥ १,२३४.
नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम् । कस्तञ्जानाति विमलं योगगम्यमतीन्द्रियम् ॥ १,२३४.
अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम् । प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् ॥ १,२३४.
सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम् । बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम् ॥ १,२३४.
अवतारेषु या मूर्तिर्विदूरे देव दृश्यते । परं भावंमजानन्तस्त्वां भजन्ति दिवौकसः ॥ १,२३४.
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम । अराधयितुमीशान मनोगम्यमगोचरम् ॥ १,२३४.
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः । पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥ १,२३४.
संकर्षणादिभेदेन तव यत्पूजिता मया । क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥ १,२३४.
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम् । यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥ १,२३४.
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम् । दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥ १,२३४.
अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम । शरिरे न (ण) तथा प्रीतिर्न च धर्मादिकेषु च ॥ १,२३४.
यथा त्वयि जगन्नाथ प्रीतिंरात्यन्तिकी मम । किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥ १,२३४.
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे । पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥ १,२३४.
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते । इति चक्रधारस्तोत्रं मया सम्यगुदाहृतम् । स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥ १,२३४.
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्घुरुम् ॥ १,२३४.
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम् । अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥ १,२३४.
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात् । पुत्रार्थो लभते पुत्रान्बद्धो मुच्यते बन्धनात् ॥ १,२३४.
रोगाद्विमुच्यते रागी लभते निर्धनो धनम् । विद्यार्थो लभते विद्यां भग्यं कीर्ति च विन्दति ॥ १,२३४.
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा । स धन्यः सर्ववित्प्राज्ञःस साधुः सर्वकर्मकृत् ॥ १,२३४.
स सत्यवाकूछुचिर्दाता यः स्तौति पुरुषोत्तमम् । असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥ १,२३४.
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया । न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥ १,२३४.
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी । आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥ १,२३४.
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम् । कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः । असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥ १,२३४.
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी । तमजममृतमीशं वासुदेवं नतोऽस्मि भयमरणविहीनं नित्यमानन्दरूपम् ॥ १,२३४.