श्रीगरुडमहापुराणम् २३४ सूत उवाच । वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् । ब्रह्मा पृष्टो नारदाय यथोवाच तथा परम् ॥ १,२३४.
नारद उवाच । यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया । प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ १,२३४.
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः । सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ १,२३४.
ब्रह्मोवाच । मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम् । शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥ १,२३४.
ओं नमो (भगवतेः वासुदेवाच नमः सर्वापहारिणे । नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥ १,२३४.
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे । नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥ १,२३४.
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च । नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥ १,२३४.
नमः पङ्कजनाभाय नमः क्षीरोदशायिने । नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥ १,२३४.
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे । नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥ १,२३४.
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च । नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥ १,२३४.
नमो वामनरूपाय बलिराज्यापहारिणे । नमो यज्ञवराहाय गोविन्दाय नमोनमः ॥ १,२३४.
नमस्ते परमानन्द नमस्ते परमाक्षर । नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ॥ १,२३४.
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम । नमस्ते विश्वकृद्देव नमस्ते विश्वभावन ॥ १,२३४.
नमस्ते स्ताद्विश्वनाथ नमस्तेः विश्वकारण । नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक ॥ १,२३४.
नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन । नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज ॥ १,२३४.
नमस्ते कालनेमिघ्न नमस्ते गरुडासन । नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन ॥ १,२३४.
नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन । नमस्ते गोकुलावास नमस्ते गोकुलप्रिय ॥ १,२३४.
जय गोपवपुः कृष्ण जय गोपीजनप्रिय । जय गोवर्धनाधार जय गोकुलवर्धन ॥ १,२३४.
जय रावणवीरघ्न जय चाणूरनाशन । जय वृष्णिकुलोद्द्योत जय कालीयमर्दन ॥ १,२३४.
जय सत्य जगत्साक्षिन् जय सर्वार्थसाधक । जय वेदान्तविद्वेद्य जय सर्वद माधव ॥ १,२३४.
जय सर्वाश्रयाव्यक्त जय सर्वग माधव । जय सूक्ष्म चिदान्दन जय चित्तनिरञ्जन ॥ १,२३४.
जयस्तेऽस्तु निरालम्ब जय शान्त सनातन । जय नाथ जगत्पुष्ट (त्पूज्य) जय विष्णो नमोऽस्तूते ॥ १,२३४.
त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम् । त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम् ॥ १,२३४.
त्वमाधारस्त्वं ह्यनन्तस्त्वं कूर्मःस्त्वं धराम्बुजम् । धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः ॥ १,२३४.
त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः । त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः ॥ १,२३४.
त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः । त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च ॥ १,२३४.
त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शावती । श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गो त्वं च तथेषुधिः ॥ १,२३४.
त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो । त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः ॥ १,२३४.
त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपांपतिः । त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः ॥ १,२३४.
आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः । त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः ॥ १,२३४.