ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः । योगिभिः सेवितं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
संसारबन्धनामुक्तिमिच्छंल्लोको ह्यशेषतः । स्तुत्वैवं वरदं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
संसारबन्धनात्कोऽपि मुक्तिमिच्छन्समाहितः । अनन्तमव्ययं देवं विष्णं विश्वप्रतिष्ठितम् । विश्वेश्वरमजं विष्णुं संदा ध्यायन्विमुच्यते ॥ १,२३२.
सूत उवाच । नारदेन पुरा पृष्ट एवं स वृषभध्वजः । येत्तेन तस्मै व्याख्यातं तन्मया कथितं तव ॥ १,२३२.
तमेव सततन्ध्यायन्निर्व्ययं ब्रह्म निष्कलम् । अवाप्स्यसि ध्रुवं तात ! शाश्वतं पदमव्ययम् ॥ १,२३२.
अश्वमेधसहस्राणि वाजपेयशतानि च । क्षणमेकाग्रचित्तस्य कलां नार्हन्ति षोडशीम् ॥ १,२३२.
श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् । स विष्णुं सम्यगाराध्य सिद्धः पदमवाप्तवान् ॥ १,२३२.
यः पठेच्छृणुयाद्वा पि नित्यमेव स्तवोत्तमम् । कोटिजन्मकृतं पापमपि तस्य प्रणश्यति ॥ १,२३२.
विष्णोः स्तवमिदं दिव्यं महादेवेन कीर्तितम् । प्रयत्नाद्यः पठेन्नित्य ममृतत्वं स गच्छति ॥ १,२३२.
श्रीगरुडमहापुराणम् २३३ सूत उवाच । स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् । दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.
शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् । अधोऽक्षजं प्रपन्नोस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.
वराहं वामनं विष्णुं नारसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.
पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति ॥ १,२३३.
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनुः । अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ १,२३३.
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्तिदुर्लभम् ॥ १,२३३.
मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ १,२३३.
इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १,२३३.
हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम् । विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव ॥ १,२३३.
श्रीगरुडमहापुराणम् २३४ सूत उवाच । वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् । ब्रह्मा पृष्टो नारदाय यथोवाच तथा परम् ॥ १,२३४.
नारद उवाच । यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया । प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ १,२३४.
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः । सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ १,२३४.
ब्रह्मोवाच । मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम् । शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥ १,२३४.
ओं नमो (भगवतेः वासुदेवाच नमः सर्वापहारिणे । नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥ १,२३४.
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे । नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥ १,२३४.
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च । नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥ १,२३४.
नमः पङ्कजनाभाय नमः क्षीरोदशायिने । नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥ १,२३४.
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे । नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥ १,२३४.
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च । नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥ १,२३४.