तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः । संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ १,२३१.
नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः । मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ १,२३१.
ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिदाम्बुजातं ज्वलिताग्निवत्क्रम् । अनादिमध्यान्तमज पुराणं परापरेशं जगतां निधानम् ॥ १,२३१.
जपेदिदं सन्ततदुः खजालं जहाति नीहारमिवांशुमाली । समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ १,२३१.
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी । प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ १,२३१.
श्रीगरुडमहापुराणम् २३२ सूत उवाच । कुलामृतं प्रवक्ष्यामि स्तोत्रं यत्तु हरोऽब्रवीत् । पृष्टः श्रीनारदेनैव नारदाय तथा शृणु ॥ १,२३२.
नारद उवाच । यः संकारे सदा द्वन्द्वैः कामक्रोधैः शुभाशुभैः । शब्दादिविषयैर्बद्धः पीड्यमानः स दुर्मतिः ॥ १,२३२.
क्षणं विमुच्यते जन्तुर्मृत्युसंसारसागरात् । भगवञ्छ्रोतुमिच्छामि त्वत्तो हि त्रिपुरान्तक ॥ १,२३२.
तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः । उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १,२३२.
महेश्वर उवाच । ज्ञानामृतं परं गुह्यं रहस्यमृषिसत्तम । वक्ष्यामि शृणु दुः खघ्नं भवबन्धभयामहम् ॥ १,२३२.
तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् । चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ १,२३२.
तस्य विष्णो प्रिसादेन यदि कश्चित्प्रबुध्यते । स निस्तरति संसारं देवानामपि दुस्तरम् ॥ १,२३२.
भोगैश्वर्यमदोन्मत्तस्ततत्त्वज्ञानपराङ्मुखः । पुत्रदारकुटुम्बेषु मत्ताः सीदन्तिजन्तवः ॥ १,२३२.
सर्व एकार्णवे मग्ना जीर्णा वनगजा इव । यस्त्वाननं निबध्नाति दुर्मतिः कोशकारवत् ॥ १,२३२.
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि । तस्मान्नारद सर्वेषां देवानां देवमव्ययम् । आराधयेत्सदा सम्यगध्यायेद्विष्णुं मुदान्वितः ॥ १,२३२.
यस्तु विश्वमनाद्यन्तमजमात्मनि संस्थितम् । सर्वज्ञमचलं विष्णुं सदा ध्यायेत्समुच्यते ॥ १,२३२.
देवं गर्भोचितं विष्णुं सदा ध्यायन्विमुच्यते । अशिरीरं विधातारं सर्वज्ञानमनोरतिम् । अचलं सर्वगं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयम् । वासुदेवं गुरुं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
सर्वात्मकञ्च वै यावदात्मचैतन्यरूपकम् । शुभमेकाक्षरं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
वाक्यातीतं त्रिकालज्ञं विश्वेशं लोकसाक्षिणम् । सर्वस्मादुत्तमं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः । योगिभिः सेवितं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
संसारबन्धनामुक्तिमिच्छंल्लोको ह्यशेषतः । स्तुत्वैवं वरदं विष्णुं सदा ध्यायन्विमुच्यते ॥ १,२३२.
संसारबन्धनात्कोऽपि मुक्तिमिच्छन्समाहितः । अनन्तमव्ययं देवं विष्णं विश्वप्रतिष्ठितम् । विश्वेश्वरमजं विष्णुं संदा ध्यायन्विमुच्यते ॥ १,२३२.
सूत उवाच । नारदेन पुरा पृष्ट एवं स वृषभध्वजः । येत्तेन तस्मै व्याख्यातं तन्मया कथितं तव ॥ १,२३२.
तमेव सततन्ध्यायन्निर्व्ययं ब्रह्म निष्कलम् । अवाप्स्यसि ध्रुवं तात ! शाश्वतं पदमव्ययम् ॥ १,२३२.
अश्वमेधसहस्राणि वाजपेयशतानि च । क्षणमेकाग्रचित्तस्य कलां नार्हन्ति षोडशीम् ॥ १,२३२.
श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् । स विष्णुं सम्यगाराध्य सिद्धः पदमवाप्तवान् ॥ १,२३२.
यः पठेच्छृणुयाद्वा पि नित्यमेव स्तवोत्तमम् । कोटिजन्मकृतं पापमपि तस्य प्रणश्यति ॥ १,२३२.
विष्णोः स्तवमिदं दिव्यं महादेवेन कीर्तितम् । प्रयत्नाद्यः पठेन्नित्य ममृतत्वं स गच्छति ॥ १,२३२.
श्रीगरुडमहापुराणम् २३३ सूत उवाच । स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् । दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.