श्रीगरुडमहापुराणम् २३१ सूत उवाच । नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना । पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ १,२३१.
भगवन् भक्षयिष्यामः सदेवासुरमानुषम् । त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥ १,२३१.
शङ्करौवाच । भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः । तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥ १,२३१.
इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः । भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥ १,२३१.
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै । नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥ १,२३१.
अनादिनिधनं देवं सर्वभूतभवोद्भवम् । विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥ १,२३१.
रत्नाङ्गदं समुकुटं हेमकेसरभूषितम् । खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥ १,२३१.
नीलोत्पलदलश्यामं रत्ननूपुरभूषितम् । तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥ १,२३१.
आवर्तसदृशाकारैः संयुक्तं देहरोमभिः । सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥ १,२३१.
स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् । यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥ १,२३१.
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः । प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ १,२३१.
शङ्कर उवाच । नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर । दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥ १,२३१.
नखमण्डलसभिन्नहेमपिङ्गलविग्रह । नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो । कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥ १,२३१.
सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम । हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥ १,२३१.
सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम । सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥ १,२३१.
सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण । सहस्रजन्ममथन सहस्रबन्धनमोचन ॥ १,२३१.
सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर । स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम् । विज्ञापयामास पुनर्विनयावनतः शिवः ॥ १,२३१.
अन्धकस्य विनाशाय या सृष्टा मातरो मया । अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥ १,२३१.
सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः । पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥ १,२३१.
एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः । सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥ १,२३१.
तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः । संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ १,२३१.
नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः । मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ १,२३१.
ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिदाम्बुजातं ज्वलिताग्निवत्क्रम् । अनादिमध्यान्तमज पुराणं परापरेशं जगतां निधानम् ॥ १,२३१.
जपेदिदं सन्ततदुः खजालं जहाति नीहारमिवांशुमाली । समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ १,२३१.
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी । प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ १,२३१.
श्रीगरुडमहापुराणम् २३२ सूत उवाच । कुलामृतं प्रवक्ष्यामि स्तोत्रं यत्तु हरोऽब्रवीत् । पृष्टः श्रीनारदेनैव नारदाय तथा शृणु ॥ १,२३२.
नारद उवाच । यः संकारे सदा द्वन्द्वैः कामक्रोधैः शुभाशुभैः । शब्दादिविषयैर्बद्धः पीड्यमानः स दुर्मतिः ॥ १,२३२.
क्षणं विमुच्यते जन्तुर्मृत्युसंसारसागरात् । भगवञ्छ्रोतुमिच्छामि त्वत्तो हि त्रिपुरान्तक ॥ १,२३२.
तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः । उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १,२३२.
महेश्वर उवाच । ज्ञानामृतं परं गुह्यं रहस्यमृषिसत्तम । वक्ष्यामि शृणु दुः खघ्नं भवबन्धभयामहम् ॥ १,२३२.