वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय वेवेन्द्रत्वादिकं फलम् ॥ १,२३०.
असंत्यज्य च गार्हस्थयं स तप्त्वा च महत्तपः । छिनत्ति पौरुषीं मायां केशवार्पितमानसः ॥ १,२३०.
क्षमां कुर्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः । मुदञ्च धर्मशीलेषु गोविन्दे हृदयस्थिते ॥ १,२३०.
ध्यायेन्नारायणं देवं स्नानदानादिकर्मसु । प्रायश्चितेतेषु सर्वेषु दुष्कृतेषु विशेषतः ॥ १,२३०.
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १,२३०.
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् । ऊर्ध्वा ह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणाम् ॥ १,२३०.
वासुदेवतरुच्छाया नातिशीतातितापदा । नरकद्वारशमनी सा किमर्थं न सेव्यते ॥ १,२३०.
न च दुर्वाससः शापो राज्यञ्चापि शचीपतेः । हन्तुं समर्थं हि सखे हृत्कृते मधुसूदने ॥ १,२३०.
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चिन्ता सिद्धां मन्येत धारणाम् ॥ १,२३०.
ध्येयः सदा सवितृमण्डलमध्यवर्तो नारायणः सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १,२३०.
न हि ध्यानेन सदृशं पवित्रमिह विद्यते । श्वपचान्नानि भुञ्जानो पापी नैवात्र लिप्यते ॥ १,२३०.
सदा चित्तं समासक्तं जन्तोर्विषयगोचरे । यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥ १,२३०.
सूत उवाच । विष्णुभक्तिर्यस्य चित्ते कं वा जीवो नमेत्सदा । स तारयति चात्मानं तदैव दुरितार्णवात् ॥ १,२३०.
तञ्ज्ञानं यत्र गोविन्दः सा कथा यत्र काशवः । तत्कर्म यत्तदर्थाय किमन्यैर्बहुभाषितैः ॥ १,२३०.
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १,२३०.
प्रणाममीशस्य शिरः फलं विदुस्तदर्चनं पाणिफलं दिवौकसः । मनः फलं तद्गुणकर्मचिन्तनं वचस्तु गोविन्दगुणस्तुतिः फलम् ॥ १,२३०.
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः । केशवस्मरणादेव तस्य सर्वं विनश्यति ॥ १,२३०.
यत्किञ्चित्कुरुते कर्म पुरुषः साध्वसाधु वा । सर्वं नारायणे न्यस्य कुर्वन्नपि न लिम्पति ॥ १,२३०.
तृणादिचतुरास्यान्तं भूतग्रामं चतुर्विधम् । चराचरं जगत्सर्वं प्रसुप्तं मायया तव ॥ १,२३०.
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र नवा विशेत्कथमपि ब्राह्मोऽपिलोकोऽल्पकः । मुक्तिञ्चेतसि संस्थितो जडधियां पुंसां ददात्यव्ययः किञ्चित्रं यदयं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ १,२३०.
अग्निकार्यं जपः स्नानं विष्णोर्ध्यानञ्च पूजनम् । गन्तुं दुः खोदधेः कुर्युर्ये च तत्र नरन्ति ते ॥ १,२३०.
राष्ट्रस्य शरणं राजा पितरो बालकस्य च । धर्मश्च सर्वमर्त्यानां सर्वस्य शरणं हरिः ॥ १,२३०.
ये नमन्ति जगद्योनिं वासुदेवं सनातनम् । न येभ्यो विद्यते तीर्थमधिकं मुनिसत्तम् ॥ १,२३०.
अनर्घरत्नपूजाञ्च कुर्यात्स्वाध्यायमेव च । तमेवोद्दिश्य गोविन्दं ध्यायन्नित्यमतन्द्रितः ॥ १,२३०.
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा । द्विजजाति समंमन्यो न याति नरकं नरः ॥ १,२३०.
आदरेण सदा स्तौति धनवन्तं धनेच्छया । तथा विश्वस्य कर्तारं को न मुच्येत बन्धनात् ॥ १,२३०.
यथा प्राप्तवनो वह्निर्दहत्यार्द्रमपीन्धनम् । तथाविधः स्थितो विष्णुर्योगिनां सर्वकिल्विषम् ॥ १,२३०.
आदीप्तं पर्वतं यद्वन्नाश्रयन्ति मृगादयः । तद्वत्पापनि सर्वाणि योगाभ्यासरतं नरम् ॥ १,२३०.
यस्य यावांश्च विश्वासस्तस्य सिद्धिस्तु तावती । एतवानेव कृष्णस्य प्रभावः परिमीयते ॥ १,२३०.
विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् । शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥ १,२३०.