कृतपापेऽनुरक्तिश्च यस्य पुंसः प्रजायते । प्रायश्चित्तन्तु तस्यैकं हरेः संस्मरणं परम् ॥ १,२३०.
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः । सोऽपि स्वर्गतिमाप्नोति किं पुनस्तत्परायणः ॥ १,२३०.
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य च योगिनः । या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥ १,२३०.
उत्तिष्ठन्निपतन्विष्णुं प्रलपन्विविशंस्तथा । भुञ्जञ्जाग्रच्च गोविन्दं माधवं यश्च संस्मरेत् ॥ १,२३०.
स्वेस्वे कर्मण्यभिरतः कुर्याच्चित्तं जनार्दने । एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥ १,२३०.
ध्यानमेव परो धर्मो ध्यानमेव परं तपः । ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत् ॥ १,२३०.
नास्ति विष्णोः परं ध्थेयं तपो नानशनात्परम् । तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ॥ १,२३०.
यद्दुर्लभं परं प्राप्यं मनसो यन्न गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ १,२३०.
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥ १,२३०.
ध्यानेन सदृशो नास्ति शोधनं पापकर्मणाम् । आगामिदेहहेतूनां दाहको योगपावकः ॥ १,२३०.
विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मा च योऽचिरात् ॥ १,२३०.
यथाग्निरुद्यतशिखः कक्षं दहति वानिलः । तथा चित्तस्थिते विष्णौ योगिना सर्वकिल्बिषम् ॥ १,२३०.
यथाग्नियोगात्कनकममलं संप्रजायते । संप्लुष्टो वासुदेवेन मनुष्याणां सदा मलः ॥ १,२३०.
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु । यत्पापं निलययाति स्मृते नश्यति तद्धरौ ॥ १,२३०.
प्राणायामसहस्नैस्तु यत्पापं नश्यति ध्रुवम् । क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति ॥ १,२३०.
कलिप्रभावाद्दुष्टोक्तिः पाषण्डानां तथोक्तयः । न क्रामेन्मानसं तस्य यस्य चेतसि केशवः ॥ १,२३०.
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः । लग्नं तदेव विख्यातं यत्र संस्मर्यते हरिः ॥ १,२३०.
सा हानिस्तन्महच्छिद्रं सा चार्थजडमूकता । चन्मुहूर्तं क्षणो वापि वासुदेवो न चिन्त्यते ॥ १,२३०.
कलौ कृत युगं तस्य कलिस्तस्य कृते युगे । हृदि नो यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥ १,२३०.
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा । गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥ १,२३०.
वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय वेवेन्द्रत्वादिकं फलम् ॥ १,२३०.
असंत्यज्य च गार्हस्थयं स तप्त्वा च महत्तपः । छिनत्ति पौरुषीं मायां केशवार्पितमानसः ॥ १,२३०.
क्षमां कुर्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः । मुदञ्च धर्मशीलेषु गोविन्दे हृदयस्थिते ॥ १,२३०.
ध्यायेन्नारायणं देवं स्नानदानादिकर्मसु । प्रायश्चितेतेषु सर्वेषु दुष्कृतेषु विशेषतः ॥ १,२३०.
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १,२३०.
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् । ऊर्ध्वा ह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणाम् ॥ १,२३०.
वासुदेवतरुच्छाया नातिशीतातितापदा । नरकद्वारशमनी सा किमर्थं न सेव्यते ॥ १,२३०.
न च दुर्वाससः शापो राज्यञ्चापि शचीपतेः । हन्तुं समर्थं हि सखे हृत्कृते मधुसूदने ॥ १,२३०.
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चिन्ता सिद्धां मन्येत धारणाम् ॥ १,२३०.
ध्येयः सदा सवितृमण्डलमध्यवर्तो नारायणः सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १,२३०.