अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ।। 23.
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः 23.
श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् 23.
अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके 23.
ॐ हौं कलविकरिण्यै बलविकरिणी ततः 23.
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः 23.
आवाहनं स्थापनं च सन्निधानं निरोधनम् 23.
आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् 23.
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् 23.
रूपकल्पके चैकाहजपो जाप्यसमर्पणम् 23.
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् 23.
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् 23.
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् 23.
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् 23.
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्) 23.
अथान्येन प्रकारेण शिवपूजां वदाम्यहम् 23.
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे 23.
तेजो वायुर्व्योम गंधो रसरूपे च शब्दकः 23.
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि 23.
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः 23.
यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर ।। 23.
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् 23.
पिंगला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ 23.
thumb|महाभूत mahabhuta वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः 23.
ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ।। 23.
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् 23.
द्र. अग्निपुराणम् ७४.१८, विष्णुधर्मोत्तरपुराणम् ३.१५२.४, शिवपुराणम् १.१० वामादेवी प्रतिष्ठा च सुषुम्ना धारिका तथा 23.
उद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च 23.
पद्मांकितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् 23.
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः 23.