शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये । संसारतृणवर्गाणामुद्वेजनकरो हि सः
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे लोकाधिकारपुरुषे परमप्रमेये । एको हि भावगुणमात्रदृढप्रणामः सद्यः श्वपाकमपि साधयितुं सशक्तः
प्रणम्य दण्डबद्भूमौ नमस्कारेण योर्ऽचयेत् । स यां गतिमवाप्नोति न तां क्रतुशतैरपि
दुर्गसंसारकान्ताराकूपारेऽपि प्रधावताम् । एकः कृष्णे नमस्कारो मुक्त्या तांस्तारयिष्यति
आसीनो वा शयानो वातिष्ठन् वा यत्र तत्र वा । नमो नारायणायेति मन्त्रैकशरणो भवेत्
नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके मूढाः पतन्तीति किमद्भुतम्
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोपि विशुद्धचेताः । स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः
व्यासाद्या मुनयः सर्वे स्तुवन्तो मधुसूदनम् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तो मृगा यथा । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति
स्वप्नेऽपि नाम स्पृशतोऽपि पुंसः क्षयं करोत्यक्षयपापराशिम् । प्रत्यक्षतः किं पुनरत्र पुंसा प्रकीर्तिते नाम्नि जनार्दनस्य
नमः कृष्णाच्युतानन्तवासुदेवेत्युदीरितम् । यैर्भावभावितैर्विप्रन ते यमपुरं ययुः
क्षयो भवेद्यथा वह्नेस्तमसो भास्करोदये । तथैव कलुषौघस्य नामसंकीर्तनाद्धरेः
क्व नाकपृष्ठगमनं पुनरायाति न क्षयम् । गच्छतां दूरमध्वानं कृष्णमूर्छितचेतसाम्
पाथेयं पुण्डरीकाक्षनामसंकीर्तनं हरेः । संसारसर्पसंदष्टविषचेष्टैकभेषजम् । कृष्णेति वैष्णवं क्षान्तं जप्त्वा मुक्तो भवेन्नरः
ध्यायन् कृते जपेन्मन्त्रैस्त्रेतायां द्वापरेर्ऽचयन् । यदाप्नोति तदाप्नोति तदाप्नोति कलौ संस्मृत्यकेशवम्
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् । संसारसागरं तीर्त्वा स गच्छेद्वैष्णवं पदम्
विज्ञातदुष्कृतिसहस्रसमावृतोऽपिश्रेयः परन्तु परिशुद्धिम भीप्समानः । स्पप्नान्तरे न हि पुनश्च भवं स पश्येन्नारायणस्तुतिकथापरमो मनुष्यः
श्रीगरुडमहापुराणम् २२९ सूत उवाच । अशेषलोकनाथस्य सारमाराधनं हरेः । दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च ॥ १,२२९.
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् । यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥ १,२२९.
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत् ॥ १,२२९.
नरके पच्यमानस्तु यमेन परिभाषितः । किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १,२२९.
उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न चार्चितः ॥ १,२२९.
न तत्करोति सा माता न पिता नापि बान्धवः । यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः ॥ १,२२९.
वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ १,२२९.
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः । तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १,२२९.
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा । विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः ॥ १,२२९.
श्रीगरुडमहापुराणम् २३० सूत उवाच । आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १,२३०.
किं तस्य दानैः किन्तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ १,२३०.
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च । नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ १,२३०.
प्रयश्चित्तान्यशेषाणि तपः कर्माणि यानि वै । विद्धि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ १,२३०.