संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे । कदाचित्केशवे भक्तिस्तद्भक्तैर्वा समागमः ॥ १,२२७.
पत्रेषु पुष्पेषु फलेषु तोयेष्वकष्टलभ्येषु सदैव सत्सु । भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नः ॥ १,२२७.
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामाहः । वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति ॥ १,२२७.
अज्ञानिनः सुखरे समधिक्षिपन्तो यत्पापिनोऽपि शिशुपालसुयोधनाद्याः । मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥ १,२२७.
शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ १,२२७.
भवोद्भवक्लेशशतैर्हतस्तथा परिभ्रमन्निन्द्रियरन्ध्रकैर्हयैः । नियम्यतां माधव ! मे मनोहयस्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥ १,२२७.
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥ १,२२७.
श्रीगरुडमहापुराणम् २२८ सूत उवाच । मुक्तिहेतुमनाद्यन्तमजमव्ययमक्षयम् । यो नमेत्सर्वलोकस्य नमस्यो जायते नरः
विष्णुमानन्दमद्वैतं विज्ञानं सर्वगं प्रभुम् । प्रणमामि सदा भक्त्या चेतसा हृदयालयम्
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम्
शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये । संसारतृणवर्गाणामुद्वेजनकरो हि सः
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे लोकाधिकारपुरुषे परमप्रमेये । एको हि भावगुणमात्रदृढप्रणामः सद्यः श्वपाकमपि साधयितुं सशक्तः
प्रणम्य दण्डबद्भूमौ नमस्कारेण योर्ऽचयेत् । स यां गतिमवाप्नोति न तां क्रतुशतैरपि
दुर्गसंसारकान्ताराकूपारेऽपि प्रधावताम् । एकः कृष्णे नमस्कारो मुक्त्या तांस्तारयिष्यति
आसीनो वा शयानो वातिष्ठन् वा यत्र तत्र वा । नमो नारायणायेति मन्त्रैकशरणो भवेत्
नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके मूढाः पतन्तीति किमद्भुतम्
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोपि विशुद्धचेताः । स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः
व्यासाद्या मुनयः सर्वे स्तुवन्तो मधुसूदनम् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तो मृगा यथा । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति
स्वप्नेऽपि नाम स्पृशतोऽपि पुंसः क्षयं करोत्यक्षयपापराशिम् । प्रत्यक्षतः किं पुनरत्र पुंसा प्रकीर्तिते नाम्नि जनार्दनस्य
नमः कृष्णाच्युतानन्तवासुदेवेत्युदीरितम् । यैर्भावभावितैर्विप्रन ते यमपुरं ययुः
क्षयो भवेद्यथा वह्नेस्तमसो भास्करोदये । तथैव कलुषौघस्य नामसंकीर्तनाद्धरेः
क्व नाकपृष्ठगमनं पुनरायाति न क्षयम् । गच्छतां दूरमध्वानं कृष्णमूर्छितचेतसाम्
पाथेयं पुण्डरीकाक्षनामसंकीर्तनं हरेः । संसारसर्पसंदष्टविषचेष्टैकभेषजम् । कृष्णेति वैष्णवं क्षान्तं जप्त्वा मुक्तो भवेन्नरः
ध्यायन् कृते जपेन्मन्त्रैस्त्रेतायां द्वापरेर्ऽचयन् । यदाप्नोति तदाप्नोति तदाप्नोति कलौ संस्मृत्यकेशवम्
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् । संसारसागरं तीर्त्वा स गच्छेद्वैष्णवं पदम्
विज्ञातदुष्कृतिसहस्रसमावृतोऽपिश्रेयः परन्तु परिशुद्धिम भीप्समानः । स्पप्नान्तरे न हि पुनश्च भवं स पश्येन्नारायणस्तुतिकथापरमो मनुष्यः
श्रीगरुडमहापुराणम् २२९ सूत उवाच । अशेषलोकनाथस्य सारमाराधनं हरेः । दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च ॥ १,२२९.
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् । यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥ १,२२९.
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत् ॥ १,२२९.