महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः । जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ १,२२७.
तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी । ते भक्ता लोकनाथस्य नामकर्मादिकीर्तने ॥ १,२२७.
मुञ्चन्त्यश्रूणि संहर्षाद्ये प्रहृष्टनूरुहाः । जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् ॥ १,२२७.
इह नित्यक्रियाः कुर्युः स्निग्धा ये वैष्णवास्तु ते । ब्रह्माक्षरं न शृण्वन्वै तया भगवतेरितम् ॥ १,२२७.
प्रणामपूर्वकं भक्त्या यो वदेद्वैष्णवो हि सः । तद्भक्तजनवात्सल्यं पूजनं चानुमोदनम् ॥ १,२२७.
तत्कथाश्रवणे प्रीतिरश्रुनेत्राङ्गविक्रियाः । येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥ १,२२७.
विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सः । विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनम् । स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति ॥ १,२२७.
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छोऽपि वर्तते । स विप्रेन्द्रो मुनिः श्रीमान्स याति परमां गतिम् ॥ १,२२७.
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः । स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः । पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥ १,२२७.
दयां कुरु प्रपन्नाय तवास्मीति च यो वदेत् । अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥ १,२२७.
मन्त्रजापिसहस्रेभ्यः सर्ववेदान्तपारगः । सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ॥ १,२२७.
एकान्तिनः स्ववपुषा गच्छन्ति परमं पदम् । एकान्तेन समो विष्णुस्तस्मादेषां परायणः ॥ १,२२७.
यस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः । प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः ॥ १,२२७.
आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा । या प्रीतिरधिका विष्णोर्विषयेष्वनपायिनी ॥ १,२२७.
विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पति । दृढभक्तोऽपि वेदादिसर्वशास्त्रार्थपारगः ॥ १,२२७.
यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् । नाधीतवेदशास्त्रोऽपि न कृतोऽध्वरसम्भवः । यो भक्तिं वहते विष्णौ तेन सर्वं कृतं भवेत् ॥ १,२२७.
यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि । न तां यान्ति गतिं भक्ता यां यान्ति मुनिसत्तमाः ॥ १,२२७.
यः कश्चिद्वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी । पुनाति सकलांल्लोकान्सहस्रांशुरिवोदितः ॥ १,२२७.
ये नृशंसा दुरात्मानः पापाचररतास्तथा । तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥ १,२२७.
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी । तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका ॥ १,२२७.
भ्राम्यतां तत्र संसारे नराणां कुर्मदुर्गमे । हस्तावलम्बने ह्येकं येन तुष्येज्जनार्दनः । न शृणोति गुणान्दिव्यान्देवदेवस्य चक्रिणः । स मरो बधिरो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ १,२२७.
नाम्नि संकीर्तिते विष्णोर्यस्य पुंसो न जायते । शरीरं पुलकोद्भासि तद्भवेत्कुणपोपमम् ॥ १,२२७.
यस्मिन्भक्तिर्द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् । निविष्टमनसां पुंसां सर्वथा वृजिनक्षयः ॥ १,२२७.
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रापन्नन्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १,२२७.
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥ १,२२७.
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति । विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥ १,२२७.
धर्मार्थकामः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूलं यस्य भक्तिः स्थिरा हरौ ॥ १,२२७.
दैवी ह्येषा गुणमयी हरेर्माया दुरत्यया । तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १,२२७.
किं यज्ञाराधने पुंसा शिष्यते हरिमेधसाम् । भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्रोपकारकम् ॥ १,२२७.
न दानैर्विविधैर्दत्तैः पुष्पैर्नैवानुलेपनैः । तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १,२२७.