अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥ १,२२६.
सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः । आसन पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १,२२६.
प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः । लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥ १,२२६.
त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः । जपध्यानयुतौ गर्भो विपरीतस्त्वर्भकः ॥ १,२२६.
प्रथमे नजयेत्स्वप्नं मध्यमेन च वेपथुम् । विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥ १,२२६.
आसनस्थन्तुयुञ्जीत कृत्वा च प्रणवं हृदी । पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नकाग्रमानसः ॥ १,२२६.
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥ १,२२६.
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीनम्न एव च । निगृह्य समवायेन प्रत्याहार मुपक्रमेत् ॥ १,२२६.
प्राणायामा दशाष्टौ च धारणा सा विधीयते । द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥ १,२२६.
प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि । कण्ठे मुखे ना सिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥ १,२२६.
किञ्चित्तस्मात्परस्मिंश्च धारणा दशधा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षररूपताम् ॥ १,२२६.
यथाग्निरग्नौ संक्षिप्तस्तथात्मा परमात्मनि । ब्रह्मरूपं महापुण्यमोमित्येकाक्षरं जपेत् ॥ १,२२६.
अकारश्च तथोकारो मकारश्चाक्षरत्रयम् । एतास्तिस्त्रस्ततो मात्राः सत्त्वराजसतामसाः ॥ १,२२६.
निर्गुणा योगिगम्याद्यार्धमात्रा परा स्थिता । गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया । इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिः स्थूलदेहविवर्जितम् । अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिः पृथिव्या मलवर्जितम् । अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिः सूक्ष्मदेहविवर्जितम् । अहं ब्रह्मपरं ज्योतिः स्थानास्थानविवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिर्गन्धमात्रविवर्जितम् । अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्परिवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् । अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् । अहं ब्रह्म परं ज्योतिरज्ञानपरिवर्जितम् ॥ १,२२६.
अहं ब्रह्म परं ज्योतिस्तुरीयं परमं पदम् । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ १,२२६.
नित्यशुद्धबुद्धंमुक्तमहामानन्दमद्वयम् । अहं ब्रह्म परं ज्योतिर्ज्ञानरूपो विमुक्तये ॥ १,२२६.
सूत उवाच । इत्यष्टाङ्गो मया योग उक्तः शौनक मुक्तिदः । नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः ॥ १,२२६.
उत्पद्यन्ते हि संसारे नैकं यात्वा परात्मनाम् । विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ॥ १,२२६.
ततो नं म्रियते दुः खी न रोगी न च वन्धवान् । न पापैर्युज्यते योगी नरके न विपच्यते ॥ १,२२६.
गर्भवासे स नो दुः खी स स्यान्नारायणोऽव्ययः । भक्त्या त्वनन्यया लभ्यो भगवान्भुक्तिमुक्तिदः ॥ १,२२६.
ध्यानेन पूजया जप्यैः सम्यक्स्तोत्रैर्यतव्रतैः । यज्ञैर्दानैश्चित्तशुद्धिस्तया ज्ञानञ्च लभ्यते ॥ १,२२६.
प्रणवादिकमन्त्रैश्च जप्यैर्मुक्तिं गता द्विजाः । इन्द्रोऽपि परमं स्थानं गन्धर्वाप्सरसो वराः ॥ १,२२६.
प्राप्ता देवाश्च देवत्वं मुनित्वं मुनयो गताः । गन्धर्वत्वञ्च गन्धर्वा राजत्वञ्च नृपादयः ॥ १,२२६.
श्रीगरुडमहापुराणम् २२७ सूत उवाच । विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते । यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥ १,२२७.