हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः 23.
ॐ हां तन्महेशाय विद्महे, वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात् ।। 23.
सूर्य्योपस्थानकं कृत्वा सूर्य्यमन्त्रैः प्रपूजयेत् ॐ हं खखोल्काय सूर्य्यमूर्त्तये नमः 23.
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् 23.
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें 23.
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम् 23.
ॐ आं हृदयार्काय च शिरः शिखा च भूर्भुवः स्वरोम् 23.
यजेत्सूर्य्यहृदा सर्वान्सों सोमं मं च मंगलम् 23.
रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्च्चयेत् 23.
हां हृच्छिरो हूं शिखा हैं वर्म्म हौं चैव नेत्रकम् 23.
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ।। 23.
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः 23.
श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् 23.
अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके 23.
ॐ हौं कलविकरिण्यै बलविकरिणी ततः 23.
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः 23.
आवाहनं स्थापनं च सन्निधानं निरोधनम् 23.
आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् 23.
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् 23.
रूपकल्पके चैकाहजपो जाप्यसमर्पणम् 23.
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् 23.
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् 23.
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् 23.
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् 23.
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्) 23.
अथान्येन प्रकारेण शिवपूजां वदाम्यहम् 23.
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे 23.
तेजो वायुर्व्योम गंधो रसरूपे च शब्दकः 23.
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि 23.
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः 23.