जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः । छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥ १,२२५.
षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः । पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥ १,२२५.
शाकहर्ता च हारीतस्तोयहर्ता च चातकः । गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥ १,२२५.
तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत् । एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥ १,२२५.
विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन् । असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥ १,२२५.
परनिन्दा कृतघ्नत्वं परसीमाभिघातनम् । नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥ १,२२५.
परस्वहरणाशौचं देवतानां च कुत्सनम् । निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः । उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥ १,२२५.
दया भूतेषु संवादः परलोकं प्रति क्रिया । सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥ १,२२५.
गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः । सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः । अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥ १,२२५.
श्रीगरुडमहापुराणम् २२६ सूत उवाच वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम् । सर्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ १,२२६.
ममेति मूलं दुः खस्य न ममेति निवर्तनम् । दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥ १,२२६.
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान् । गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः ॥ १,२२६.
धनधान्ये महापत्रे पापमूलोऽतिदुर्गमः । विधिवत्सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥ १,२२६.
छिन्नो विद्याकुठारेण ते गता लयमीश्वरे । प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ॥ १,२२६.
प्राप्नुवन्ति पराः प्राज्ञाः सुखनिर्वृतिमेव च । मूर्तेन्द्रियलयं नूनं न त्वं राजन्न चाप्यहम् ॥ १,२२६.
न तन्मात्रादिकं वाचा नैवान्तः करणं तथा । कं वा पश्यसि राजेन्द्र प्रधानमिदमावयोः ॥ १,२२६.
मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः । एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ॥ १,२२६.
ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः । सा मुक्तिर्ब्रह्मणा चैक्य मनैक्यं प्राकृतैर्गुणैः ॥ १,२२६.
तद्गृहं यत्र वसति तद्भोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानाज्ञाने न चान्यथा ॥ १,२२६.
उपभोगेन पुण्याना मपुण्यानाञ्च पार्थिव । कर्तव्यानाञ्च नित्यानां क्षयन्त्वकरणात्तथा ॥ १,२२६.
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥ १,२२६.
सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः । आसन पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १,२२६.
प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः । लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥ १,२२६.
त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः । जपध्यानयुतौ गर्भो विपरीतस्त्वर्भकः ॥ १,२२६.
प्रथमे नजयेत्स्वप्नं मध्यमेन च वेपथुम् । विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥ १,२२६.
आसनस्थन्तुयुञ्जीत कृत्वा च प्रणवं हृदी । पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नकाग्रमानसः ॥ १,२२६.
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥ १,२२६.
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीनम्न एव च । निगृह्य समवायेन प्रत्याहार मुपक्रमेत् ॥ १,२२६.
प्राणायामा दशाष्टौ च धारणा सा विधीयते । द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥ १,२२६.
प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि । कण्ठे मुखे ना सिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥ १,२२६.