त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् । नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥ १,२२५.
ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी । बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥ १,२२५.
ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः । एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥ १,२२५.
नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥ १,२२५.
नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः । उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥ १,२२५.
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्दभोजायते जन्तुर्मित्रस्यैवापमानकृत् ॥ १,२२५.
पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते । भुर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥ १,२२५.
सोऽपि मोहसमापन्नो जायते वानरो मृतः । न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥ १,२२५.
असूयकश्च नरकान्मुक्तो भवति राक्षसः । विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥ १,२२५.
यवधान्यानि संहृत्य जायते मूषको मृतः । परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥ १,२२५.
भ्रातृभार्याप्रसंगेन कोकिलो जायते नरः । गुर्वादिभार्यागमनाच्छूकरो जायते नरः ॥ १,२२५.
यज्ञदानविवाहानां विघ्नकर्ता भवेत्कृमिः । देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ॥ १,२२५.
प्रमुक्तो नरकाद्वापि वायसः सन्प्रजायते । ज्येष्ठभ्रात्रपमानाच्च क्रौञ्चयोनौ प्रजायते ॥ १,२२५.
शूद्रस्तु ब्राह्मणीं गत्वा कृमियोनौ प्रजायते । तस्यामपत्यमुत्पाद्य काष्ठान्तः कटीको भवेत् ॥ १,२२५.
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा । अशस्त्रं पुरुषं हर्ता नरः सञ्जायते खरः ॥ १,२२५.
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते । भोजनञ्चोरयित्वा तु मक्षिका जायते नरः ॥ १,२२५.
हृत्वाज्यञ्चैव मार्जारस्तिलहृच्चैव मूषकः । घृतं हृत्वा च नकुलः काको मद्भुरमामिषम् ॥ १,२२५.
मधु हृत्वा नरो दंशपूपं हृत्वा पिपीलिकः । अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १,२२५.
हृते काष्ठे च हारीतः कपोतो वा प्रजायते । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १,२२५.
कार्पासिके हृते क्रौञ्चो वह्रिहर्ता बकस्तथा । मयूरो वर्णकं हृत्वा शाकपत्रञ्च जायते ॥ १,२२५.
जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः । छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥ १,२२५.
षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः । पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥ १,२२५.
शाकहर्ता च हारीतस्तोयहर्ता च चातकः । गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥ १,२२५.
तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत् । एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥ १,२२५.
विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन् । असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥ १,२२५.
परनिन्दा कृतघ्नत्वं परसीमाभिघातनम् । नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥ १,२२५.
परस्वहरणाशौचं देवतानां च कुत्सनम् । निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः । उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥ १,२२५.
दया भूतेषु संवादः परलोकं प्रति क्रिया । सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥ १,२२५.
गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः । सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः । अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥ १,२२५.
श्रीगरुडमहापुराणम् २२६ सूत उवाच वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम् । सर्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ १,२२६.