श्रीगरुडमहापुराणम् २२४ सूत उवाच । चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः । अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ १,२२४.
उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः । ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ १,२२४.
भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा । विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥ १,२२४.
विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् । वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥ १,२२४.
विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः । विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् । शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥ १,२२४.
सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः । अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥ १,२२४.
पूर्णे संवत्सरशते संहृत्य सकलं जगत् । ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥ १,२२४.
ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम् । अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज । शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥ १,२२४.
अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः । पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥ १,२२४.
एवं सा जगदाधारा तोये चोर्वो प्रलीयते । आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥ १,२२४.
वायुः खे खञ्च भूतादौ विशते च तदा महान् । महान्प्रपद्यतेऽव्यक्तं प्रकृतिः पुरुषे परे ॥ १,२२४.
शतवर्षं हरिः शेते सृजत्यथ दिनगमे । अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम् ॥ १,२२४.
श्रीगरुडमहापुराणम् २२५ सूत उवाच । आध्यात्मिकादितापांस्त्रीञ्ज्ञात्व संस्राचक्रवित् । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १,२२५.
संसारचक्रं वक्ष्येऽहमादाबुत्क्रान्तिकालतः । यद्विना पुरुषार्थो न लीनः स्यात्परमात्मनि ॥ १,२२५.
ऊर्ध्ववासी नरस्त्यक्त्वा देहमन्यत्प्रपद्यते । नीयतेद्वादशाहेन यमस्य यमपूरुषैः ॥ १,२२५.
तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह । यच्च पिण्डं प्रयच्छन्ति यमलोके तदश्नुते ॥ १,२२५.
गतश्च नरकं पापात्स्वर्गं याति स्वपुण्यतः । पापकृद्याति नरकं पुण्यकृद्याति वै दिवम् ॥ १,२२५.
स्वर्गाच्च नरकात्त्यक्तः स्त्रीणां गर्भे भवत्यपि । नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥ १,२२५.
कललं बुद्ब्रुदमयं ततः शोणितमेव च । पेश्याः पलसमोऽण्डः स्यादङ्कुरं तत उच्यते ॥ १,२२५.
उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च । आवहं याति चाङ्गेभ्यस्तत्परन्तु नखादिकम् ॥ १,२२५.
त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् । नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥ १,२२५.
ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी । बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥ १,२२५.
ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः । एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥ १,२२५.
नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥ १,२२५.
नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः । उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥ १,२२५.
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्दभोजायते जन्तुर्मित्रस्यैवापमानकृत् ॥ १,२२५.
पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते । भुर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥ १,२२५.
सोऽपि मोहसमापन्नो जायते वानरो मृतः । न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥ १,२२५.
असूयकश्च नरकान्मुक्तो भवति राक्षसः । विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥ १,२२५.
यवधान्यानि संहृत्य जायते मूषको मृतः । परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥ १,२२५.