तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् । कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च । माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.
पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने । न्यायः शौनक मीमांसा आयुर्वेदार्थशास्त्रकम् । गान्धर्वश्च धनुर्वेदो विद्या ह्यष्टादशस्मृताः ॥ १,२२३.
द्वापरान्तेन च हरिर्गुरुभारमपाहरत् । एकपादस्थिते धर्मे कृष्णत्वञ्चाच्युते गते ॥ १,२२३.
जनास्तदा दुराचारा भविष्यन्ति च निर्दयाः । सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ॥ १,२२३.
प्रभूतञ्च यदा सत्त्वं मनो बुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥ १,२२३.
यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोभूतिरिति जानीहि शौनक ॥ १,२२३.
यदा लोभस्त्वसन्तोषो मानो दम्भश्च मत्सरः । कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ॥ १,२२३.
यदा सदानृतं तन्द्रा निद्रा हिंसादिसाधनम् । शोकमोहौ भयं दैन्यं स कलिस्तमसि स्मृतः ॥ १,२२३.
यस्मिञ्जनाः कामिनः स्युः शश्वत्कटुकभाषिणः । दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥ १,२२३.
राजानश्च प्रजाभिक्षाः शिश्नोदरपराजिताः । अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥ १,२२३.
तपस्विनो ग्रामवासाः न्यासिनो ह्यर्थलोलुपाः । ह्रस्वकाया महाहाराश्चौरास्ते साधवः स्मृताः ॥ १,२२३.
त्यक्ष्यन्ति भृत्याश्च पतिं तापसस्त्यक्ष्यति व्रतम् । शूद्राः प्रतिग्रहिष्यन्ति वैश्या व्रतपरायणः ॥ १,२२३.
उद्विग्नाः सन्ति च जनाः पिशाचसदृशाः प्रजाः । अन्यायभोजनेनाग्निदेवतातिथिपूजनम् ॥ १,२२३.
करिष्यन्ति कलौ प्राप्ते न च पित्र्योदकक्रियाम् । स्त्रीपराश्च जनाः सर्वे शूद्रप्रायाश्च शौनक ॥ १,२२३.
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः । शिरः कण्डूयनपरा आज्ञां भेत्स्यन्ति भर्त्सिताः ॥ १,२२३.
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः । कलेर्दोषनिधेर्विप्रा अस्ति ह्येको महागुणः ॥ १,२२३.
कीर्तनादेव कृष्णस्य महाबन्धं परित्यजेत् । कृते यद्ध्यायतो विष्णुं त्रेतायां जपतः फलम् ॥ १,२२३.
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् । तस्माद्ध्येयो हरिर्नित्यं गेयः पूज्यश्च शौनक ॥ १,२२३.
श्रीगरुडमहापुराणम् २२४ सूत उवाच । चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः । अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ १,२२४.
उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः । ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ १,२२४.
भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा । विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥ १,२२४.
विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् । वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥ १,२२४.
विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः । विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् । शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥ १,२२४.
सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः । अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥ १,२२४.
पूर्णे संवत्सरशते संहृत्य सकलं जगत् । ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥ १,२२४.
ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम् । अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज । शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥ १,२२४.
अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः । पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥ १,२२४.
एवं सा जगदाधारा तोये चोर्वो प्रलीयते । आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥ १,२२४.