पयः काञ्चनवर्णायाः श्वेतवर्णं च गोमयम् । गोमूत्रं ताम्रवर्णाया नीलवर्णभवं घृतम् ॥ १,२२२.
दधि स्यात्कृष्णवर्णाया दर्भोदकसमायुतम् । गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥ १,२२२.
क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश उच्यते । घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥ १,२२२.
श्रीगरुडमहापुराणम् २२३ ब्रह्मोवाच मुनिभिश्चरिता धर्मा भक्त्या व्यास मयोदिताः । यैर्विष्णुस्तुष्यते चैव सूर्यादिपरिचारणात् ॥ १,२२३.
तर्पणेन च होमेन सन्ध्याया वन्दनेन च । प्राप्यते भगवान् विष्णुर्धर्मकामार्थमोक्षदः ॥ १,२२३.
धर्मो हि भगवान्विष्णुः पूजी विष्णोस्तु तर्पणम् । होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥ १,२२३.
सूच उवाच । प्रलयं जगतो वक्ष्ये तत्सर्वं शृणु शौनक । चतुर्युगसहस्रन्तु कल्पैकाब्जदिनं स्मृतम् ॥ १,२२३.
कृतत्रेताद्वापरादियुगावस्था निबोधमे । कृते धर्मश्चतुष्पाच्च सत्यं दानं तपो दया ॥ १,२२३.
धर्मपाता हरिश्चेति सन्तुष्टा ज्ञानिनो नराः । चतुर्वर्षसहस्राणि नरा जीवन्ति वै तदा ॥ १,२२३.
कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्विजैः । शूरश्चातिबलो विष्णू रक्षांसि च जघान ह ॥ १,२२३.
त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः । नरा यज्ञपरास्तस्मिंस्तथा क्षत्रोद्भवं जगत् ॥ १,२२३.
रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः । तत्र विष्णुर्भोमरथः क्षत्रिया राक्षसानहन् ॥ १,२२३.
द्विपादविग्रहो धर्मः पीतताञ्चाच्युते गते । चतुः शतायुषो लोका द्विजक्षत्रोद्भवाः प्रजाः ॥ १,२२३.
तत्र दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् । तदेकन्तु यजुर्वेदं? चतुर्धा व्यभजत्पुनः ॥ १,२२३.
शिष्यानध्यापयामास समस्तांस्तान्निबोध मे । ऋग्वेदमथ पैलन्त्सामवेदञ्च जैमिनिम् ॥ १,२२३.
अथर्वाणं सुमन्तुन्तु यजुर्वेदं महामुनिम् । वैशम्पायनमङ्गन्तु पुराणं सूतमेव च । अष्टादशपुराणानि यैर्वेद्यो हरिरेव हि ॥ १,२२३.
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितच्चैव पुराणं पञ्चलक्षणम् ॥ १,२२३.
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा । भविष्यन्नारदीयञ्चस्कान्दं लिङ्गं वराहकम् ॥ १,२२३.
मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्तमेव च । कौर्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् । अष्टादशसमुद्दिष्टं ब्रह्माण्डमिति संज्ञितम् ॥ १,२२३.
अन्यान्युपपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १,२२३.
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् । कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च । माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.
पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने । न्यायः शौनक मीमांसा आयुर्वेदार्थशास्त्रकम् । गान्धर्वश्च धनुर्वेदो विद्या ह्यष्टादशस्मृताः ॥ १,२२३.
द्वापरान्तेन च हरिर्गुरुभारमपाहरत् । एकपादस्थिते धर्मे कृष्णत्वञ्चाच्युते गते ॥ १,२२३.
जनास्तदा दुराचारा भविष्यन्ति च निर्दयाः । सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ॥ १,२२३.
प्रभूतञ्च यदा सत्त्वं मनो बुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥ १,२२३.
यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोभूतिरिति जानीहि शौनक ॥ १,२२३.
यदा लोभस्त्वसन्तोषो मानो दम्भश्च मत्सरः । कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ॥ १,२२३.
यदा सदानृतं तन्द्रा निद्रा हिंसादिसाधनम् । शोकमोहौ भयं दैन्यं स कलिस्तमसि स्मृतः ॥ १,२२३.