खाक्षीन्द्रसूर्य्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्त्तनम् 22.
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते 22.
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे 22.13 शान्त्यतीतं भवेद्धोम तत्परं शान्तमव्ययम् 22.
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सादेन शिवं स्मरेत् 22.
होमयेदस्त्रबीजेन एवं दीक्षां समाप्येत् 22.
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ।। 22.
शिवार्चनं प्रवक्ष्यामि धर्म्मकामादिसाधनम् 23.
ॐ हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा 23.
भस्मस्न्नानं तर्पणं च ॐ हां स्वाहा सर्वमन्त्रकाः 23.
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः 23.
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः 23.
ॐ हां तन्महेशाय विद्महे, वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात् ।। 23.
सूर्य्योपस्थानकं कृत्वा सूर्य्यमन्त्रैः प्रपूजयेत् ॐ हं खखोल्काय सूर्य्यमूर्त्तये नमः 23.
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् 23.
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें 23.
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम् 23.
ॐ आं हृदयार्काय च शिरः शिखा च भूर्भुवः स्वरोम् 23.
यजेत्सूर्य्यहृदा सर्वान्सों सोमं मं च मंगलम् 23.
रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्च्चयेत् 23.
हां हृच्छिरो हूं शिखा हैं वर्म्म हौं चैव नेत्रकम् 23.
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ।। 23.
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः 23.
श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् 23.
अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके 23.
ॐ हौं कलविकरिण्यै बलविकरिणी ततः 23.
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः 23.
आवाहनं स्थापनं च सन्निधानं निरोधनम् 23.
आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् 23.
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् 23.
रूपकल्पके चैकाहजपो जाप्यसमर्पणम् 23.