राज्ञां युद्धेषु यज्ञादौ देशान्तरगतेषु च । बाले प्रेते मासिके च सद्यः शौचं विधीयते ॥ १,२२२.
अविवाहा तथा कन्या द्विजो मौञ्जीविवर्जितः । जतदन्तश्च बालश्च कुमारी च त्रिवर्षिका ॥ १,२२२.
तेषां शुद्धिस्त्रिरात्रेण गर्भस्त्रावे त्रिरात्रिभिः । सूतायां मासतुल्याश्च चतुर्थेऽह्नि रजस्वला ॥ १,२२२.
दुर्भिक्षे राष्ट्रसंपते सूतके मृतकेपि वा । नियमाश्च न दुष्यन्ति दानधर्मपरास्तथा ॥ १,२२२.
दक्षिकाले विवाहादौ देवद्विजनिमन्त्रिते । पूर्वसंकल्पिते वापि नाशौचं मृतसूतके ॥ १,२२२.
प्रसूतपत्नीसंस्पर्शादशुचिः स्यात्तथा द्विजः । अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ॥ १,२२२.
सततं वैश्वदेवा दि न तेषां सूतकं भवेत् । अशुद्धे च गृहे भुक्ते त्रिरात्राच्छुध्यति द्विजः ॥ १,२२२.
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चैव रजस्वला । अन्योन्यस्पर्शनात्तत्र ब्राह्मणी तु त्रिरात्रतः ॥ १,२२२.
द्विरात्रतः क्षत्रिया च शुद्धा वैश्या ह्युपोषिता । शूद्रा स्नानेन शुध्येत्तु द्रोणार्थं न विसर्जयेत् ॥ १,२२२.
काकश्वानोपनी तन्तु अन्नं बाह्यन्तु तत्त्यजेत् । सुवर्णाद्भैः समभ्युक्ष्य हुताशे च प्रतापयेत् ॥ १,२२२.
कूपे च पतितान्दृष्ट्वा श्वशृगालौ च मर्कटम् । तत्कूपस्योदकं पीत्वा शुध्येद्विप्रस्त्रिभिर्दिनैः । क्षत्रियोऽहर्द्वयेनैव वैश्यो वैकाहतः परम् ॥ १,२२२.
अस्थि चर्म मलं वापि मूषिकां यदि कूपतः । उद्धृत्य चोदकं पञ्च गव्याच्छुद्ध्येत्तु शोधितम् ॥ १,२२२.
तडागे पुष्करिण्यादौ भस्मादिं पातयेत्तथा । षट्कुम्भानप उत्द्धृय पञ्चगव्येन शुध्यति ॥ १,२२२.
स्त्रीरजः पतितं मध्ये त्रिंशत्कुम्भान्समुद्धरेत् । अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ॥ १,२२२.
शुध्ये च्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः । वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्विशुध्यति ॥ १,२२२.
प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् । क्रीडायां शयनीयादौ नीलीवस्त्रं न दुष्यति ॥ १,२२२.
नीलीवस्त्रं न स्पृशेच्च नीली च निरयं ब्रजेत् । व्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १,२२२.
ऋक्षं दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः । ततो धेनुशतं दद्याद्ब्राह्मणानान्तु भोजनम् ॥ १,२२२.
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । न्यस्येदात्मानमग्नौ वा सुसमिद्धे सुरापकः ॥ १,२२२.
स्तेयी सर्वं वेदविदे ब्राह्मणायोपपादयेत् । वृषमेकं सहस्रं गां दद्याच्च गुरुतल्पगः ॥ १,२२२.
कृतपापश्चरेद्रोधे द्वौ पादौ बन्धयन्पशोः । सर्वकृच्छ्रं निपानेस्यात्कान्तारे गृहदाहतः ॥ १,२२२.
कण्ठाभरणदोषेण कृच्छ्रपादं मृते गवि । अस्थिभङ्गं गवां कृत्वा शृङ्गभङ्गमथापि वा ॥ १,२२२.
त्वग्भेदं पुच्छनाशे वा मासार्धं यावकं पिबेत् । सर्वं हस्त्यश्वशस्त्राद्यैर्निश्चयं कृच्छ्रमेव तु ॥ १,२२२.
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमायान्ति त्रयो वर्णा द्विजातयः ॥ १,२२२.
वपनं मेख्ला दण्डो भैक्ष्यचर्याव्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ १,२२२.
आममांसं घृतं क्षौद्रं स्नेहश्च कालसम्भवाः । अन्त्यभाण्डस्थिताः सर्वे निष्क्रान्ताः शुचयः स्मृताः ॥ १,२२२.
तैलादिघृतमाध्वीकं पण्यद्रव्यं द्रवस्तथा । एकभक्तं क्रमान्नक्तं एकैकाहमयाचितम् । उपवासः पादकृच्छ्रं कृच्छार्धद्विगुणं हि यत् ॥ १,२२२.
प्राजापत्यन्तु तत्स्याच्च सर्वपातकनाशनम् । कृच्छ्रं सप्तोपवासैश्च महासान्तपनं स्मृतम् ॥ १,२२२.
त्र्यहमुष्णं पिबेच्छापः त्र्यहमुष्णं पयः पिबेत् । त्र्यमुष्णं पिबेत्सर्पिस्तप्तकृच्छ्रमघापहम् ॥ १,२२२.
द्वादशाहोपवासेन पराकः सर्वपापहा । एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् ॥ १,२२२.