भुक्त्वोपविष्टोऽनाचान्तश्चण्डालं यदि संस्पृशेत् । गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥ १,२२२.
चाण्डालश्वपचैर्वापि विण्मूत्रे तु कृते द्विजाः । प्रायश्चित्तं त्रिरात्रं स्यात्पराकश्चान्त्यजागतौ ॥ १,२२२.
अकामतः स्त्रियो गत्वा पराकस्तत्र साधकः । अन्त्यजातिप्रसूतस्य प्रायश्चित्तं न विद्यते ॥ १,२२२.
मद्यादिदुष्टभाण्डेषु यादपः पिबति द्विजः । कृच्छ्रपादेन शुध्येद्वै पुनः संस्कारकर्मणा ॥ १,२२२.
ये प्रत्यवसिता विप्रा वज्राग्निपवनादिषु । अन्नपानादि संगृह्य चिकीर्षन्ति गृहान्तरम् ॥ १,२२२.
चारयेत्त्रीणि कृच्छाणि त्रीणि चान्द्रायणानि वै । जातकर्मादिसंस्कारं वसिष्ठो मुनिरब्रवीत् ॥ १,२२२.
प्राजापत्यादिभिर्द्रष्टा स्त्री शुध्येत्तु द्विभोजनात् । उच्छिष्टोच्छिष्टसंस्पृष्टंशुना शूद्रेण वा द्विजः ॥ १,२२२.
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति । वर्णबाह्येन संस्पृष्टः पञ्चरात्रेण वै तदा ॥ १,२२२.
अदुष्टाः सन्तता धाराः वातोद्धूताश्च रेणवः । स्त्रियो बालाश्च वृद्धाश्च न दुष्यन्ति कदाचन ॥ १,२२२.
नित्यमास्यं शुचि स्त्रीणां शकुन्तैः पातितं फलम् । प्रस्त्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १,२२२.
उदके चोदकस्थं तु स्थलेषु स्थलजं शुचि । पादौ स्थाप्यौ च तत्रैव आचान्तः शुचितामियात् ॥ १,२२२.
शुध्येत्तद्भस्मना कांस्यं सुरया यन्न लिप्यते । मूत्रेण सुरया मिश्रं तपनैः खलु शुध्यति ॥ १,२२२.
गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । काकश्वापहतान्येव शुध्यन्ति दश भस्मना ॥ १,२२२.
शूद्रभाजनभोक्ता यः पञ्चगव्यं त्र्युपोषितः । उच्छिष्टं स्पृशते विप्रः श्वसूद्रश्चापराधिकः ॥ १,२२२.
उपोषितः पञ्चगव्याच्छुध्येत्स्पृष्ट्वा रजस्वलाम् । अनुदकेषु देशेषु चोरव्याघ्राकुले पथि ॥ १,२२२.
कृत्वा मूत्रपुरीषन्तु द्रव्यहस्तो न दुष्यति । भूमौनिः क्षैप्य तद्द्रव्यं शौचं कृत्वा समाहितः ॥ १,२२२.
आरनालं दधि क्षीरं तक्रन्तु कृसरञ्च यत् । शूद्रादपि च तद्गाह्यं मांसं मधु तथान्त्यजात् ॥ १,२२२.
गौडीं पैष्टीञ्च माध्वीकं विप्रादिर्यः सुरां पिबेत् । सुरां पिबन्द्विजः शुध्येदग्निवर्णां सुरां पिबन् ॥ १,२२२.
विप्रः पञ्चशतं जप्यं गायत्र्याः क्षत्रियस्य च शतं विप्रश्च भुक्त्वान्नं पानपात्रेण सूतके ॥ १,२२२.
शुचिर्विप्रो दशाहेन क्षत्त्रियो द्वादशाहतः । वैश्यः पञ्चदशाहन शूद्रो मासेन शुध्यति ॥ १,२२२.
राज्ञां युद्धेषु यज्ञादौ देशान्तरगतेषु च । बाले प्रेते मासिके च सद्यः शौचं विधीयते ॥ १,२२२.
अविवाहा तथा कन्या द्विजो मौञ्जीविवर्जितः । जतदन्तश्च बालश्च कुमारी च त्रिवर्षिका ॥ १,२२२.
तेषां शुद्धिस्त्रिरात्रेण गर्भस्त्रावे त्रिरात्रिभिः । सूतायां मासतुल्याश्च चतुर्थेऽह्नि रजस्वला ॥ १,२२२.
दुर्भिक्षे राष्ट्रसंपते सूतके मृतकेपि वा । नियमाश्च न दुष्यन्ति दानधर्मपरास्तथा ॥ १,२२२.
दक्षिकाले विवाहादौ देवद्विजनिमन्त्रिते । पूर्वसंकल्पिते वापि नाशौचं मृतसूतके ॥ १,२२२.
प्रसूतपत्नीसंस्पर्शादशुचिः स्यात्तथा द्विजः । अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ॥ १,२२२.
सततं वैश्वदेवा दि न तेषां सूतकं भवेत् । अशुद्धे च गृहे भुक्ते त्रिरात्राच्छुध्यति द्विजः ॥ १,२२२.
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चैव रजस्वला । अन्योन्यस्पर्शनात्तत्र ब्राह्मणी तु त्रिरात्रतः ॥ १,२२२.
द्विरात्रतः क्षत्रिया च शुद्धा वैश्या ह्युपोषिता । शूद्रा स्नानेन शुध्येत्तु द्रोणार्थं न विसर्जयेत् ॥ १,२२२.
काकश्वानोपनी तन्तु अन्नं बाह्यन्तु तत्त्यजेत् । सुवर्णाद्भैः समभ्युक्ष्य हुताशे च प्रतापयेत् ॥ १,२२२.