न गोदानात्परं दानं किञ्चिदस्तीति मे मतिः । या गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम् ॥ १,२२१.
नान्नदानात्परं दानं किञ्चिदस्ति वृषध्वज ! । अन्नेन धार्यते सर्वं चराचरमिदं जगत् ॥ १,२२१.
कन्यादानं वृषोत्सर्गस्तीर्थसेवा श्रुतं तथा । हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥ १,२२१.
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीम् । अन्नात्प्राणा बलं तेजश्चान्नाद्वीर्यं धृतिः स्मृतिः ॥ १,२२१.
कूपवापीतडागादीनारामांश्चैव कारयेत् । त्रिसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥ १,२२१.
साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते । कालेन तीर्थं फलति सद्यः साधुसमागमः ॥ १,२२१.
सत्यं दमस्तपः शौचं सन्तोषश्च क्षमार्जवम् । ज्ञानं शमो दया दानमेष धर्मः सनातनः ॥ १,२२१.
श्रीगरुडमहापुराणम् २२२ ब्रह्मोवाच । प्रायश्चित्तादि वक्ष्येऽहं नरकौघविमर्दनम् । मक्षिका विप्रुषो नारी भुवि तोयं हुताशनः । मार्जारो नकुलश्चैव शुचीन्येतानि नित्यशः ॥ १,२२२.
यः शूद्रोच्छिष्टसंस्पृष्टं प्रमादाद्भक्षयेद्द्विजः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १,२२२.
विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन । स्नानं जप्यञ्च कर्तव्यं दिनस्यान्ते च भोजनम् ॥ १,२२२.
अन्नं समक्षिकाकेशं शुध्येद्वान्तेन तत्क्षणात् । यश्च पाणितले भुङ्क्ते अङ्गुल्या बाहुना च यः ॥ १,२२२.
अहोरात्रेण शुध्येत पिबेद्यदि न वार्युत । पीतशेषन्तु यत्तोयं वामहस्तेन मद्यवत् ॥ १,२२२.
चर्ममध्यगतं तोयमशुचि स्यान्न तत्पिबेत् । अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ॥ १,२२२.
चान्द्रायणं पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यन्तु शूद्रस्य पश्चाज्ज्ञाते तथापरे ॥ १,२२२.
यस्तत्र भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत् । तेषामपि च यो भुङ्क्ते कृच्छ्रपादो विधीयते ॥ १,२२२.
रजकानाञ्च शैलू षवेणुचर्मोपजीविनाम् । एतदन्नञ्च यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ १,२२२.
चाण्डालकूपभाण्डेषु अज्ञानाच्चेत्पिबेज्जलम् । कुर्यात्सान्तपनं विप्रस्तदर्धञ्च विशः स्मृतम् ॥ १,२२२.
पादं शूद्रस्य दातव्यमज्ञानादन्त्यवेश्मनि । प्रायश्चित्तं त्रिकृच्छ्रं स्यात्पराकमन्त्यजागतौ ॥ १,२२२.
अन्त्यजोच्छिष्टभुक्च्छुध्येद्द्विजश्चान्द्रायणेन च । चाण्डालन्नं यदा भुङ्क्ते प्रमादादैन्दवञ्चरेत् ॥ १,२२२.
क्षत्त्रजातिः सान्तपनं षड्द्विरात्रं परे तथा । एकवृक्ष तु चण्डालः प्रमादाद्ब्राह्मणो यदि । फलं भक्षयते तत्र अहोरात्रेण शुध्यति ॥ १,२२२.
भुक्त्वोपविष्टोऽनाचान्तश्चण्डालं यदि संस्पृशेत् । गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥ १,२२२.
चाण्डालश्वपचैर्वापि विण्मूत्रे तु कृते द्विजाः । प्रायश्चित्तं त्रिरात्रं स्यात्पराकश्चान्त्यजागतौ ॥ १,२२२.
अकामतः स्त्रियो गत्वा पराकस्तत्र साधकः । अन्त्यजातिप्रसूतस्य प्रायश्चित्तं न विद्यते ॥ १,२२२.
मद्यादिदुष्टभाण्डेषु यादपः पिबति द्विजः । कृच्छ्रपादेन शुध्येद्वै पुनः संस्कारकर्मणा ॥ १,२२२.
ये प्रत्यवसिता विप्रा वज्राग्निपवनादिषु । अन्नपानादि संगृह्य चिकीर्षन्ति गृहान्तरम् ॥ १,२२२.
चारयेत्त्रीणि कृच्छाणि त्रीणि चान्द्रायणानि वै । जातकर्मादिसंस्कारं वसिष्ठो मुनिरब्रवीत् ॥ १,२२२.
प्राजापत्यादिभिर्द्रष्टा स्त्री शुध्येत्तु द्विभोजनात् । उच्छिष्टोच्छिष्टसंस्पृष्टंशुना शूद्रेण वा द्विजः ॥ १,२२२.
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति । वर्णबाह्येन संस्पृष्टः पञ्चरात्रेण वै तदा ॥ १,२२२.
अदुष्टाः सन्तता धाराः वातोद्धूताश्च रेणवः । स्त्रियो बालाश्च वृद्धाश्च न दुष्यन्ति कदाचन ॥ १,२२२.
नित्यमास्यं शुचि स्त्रीणां शकुन्तैः पातितं फलम् । प्रस्त्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १,२२२.