ओं वाच्यतां इत्युक्ते ओं पितामहादिभ्यः स्वधोच्यताम् । अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति । अस्तु स्वधेत्युक्ते ओं ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः । ओं विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ओं यवोदकदानम् । ओं देवताभ्य इति त्रिर्जपः ॥ १,२२०.
पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम् । प्रतिगृह्यतामित्युक्ते दातारो नोऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम् । अभिरण्यतामिति पितृब्राह्मणविसर्जनम् ॥ १,२२०.
सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव । श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः ॥ १,२२०.
श्रीगरुडमहापुराणम् २२१ ब्रहामोवाच । धर्मसारमहं वक्ष्ये संक्षेपाच्छुणु शङ्कर । भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनम् ॥ १,२२१.
श्रुतं धर्मं बलं धैर्यं सुखमुत्साहमेव च । शोको हरति वै नॄणां तस्माच्छोकं परित्यजेत् ॥ १,२२१.
कर्मदाराः कर्मलोकाः कर्मसम्बन्धिबान्धवाः । कर्माणि प्रेरयन्तीह पुरुषं सुखदुः खयोः ॥ १,२२१.
दानमे परो धर्मो दानात्सर्वमवाप्यते । दानाःत्स्वर्गश्च राज्यञ्च दद्याद्दनं ततो नरः ॥ १,२२१.
एकतो दानमेवाहुः समग्रवरदक्षिणम् । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ १,२२१.
तपसा ब्रह्मचर्येण यज्ञैः स्नानेन वा पुनः । धर्मस्य नाशका ये च ते वै निरयगामिनः ॥ १,२२१.
ये च होमजपस्नानदेवतार्चनतत्पराः । सत्यक्षमादयायुक्तास्ते नराः स्वर्गगामिनः ॥ १,२२१.
न दाता सुखदुः खानां न च हर्तास्ति कश्चन । भुञ्जते स्वकृतान्येव दुः खानि च सुखानि च ॥ १,२२१.
धर्मार्थं जीवितं येषां दुर्गाण्यतितरन्ति ते । सन्तुष्टः को न शक्नोति फलमूलैश्च वर्तितुम् ॥ १,२२१.
सर्व एव हि सौख्येन सङ्कटान्यवगाहते । इदमेव हि लोभस्य कार्यं स्या दतिदुष्करम् ॥ १,२२१.
लोभात्क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्तते । लोभान्मोहश्च माया च मानो मत्सर एव च ॥ १,२२१.
रागद्वेषानृतक्रोधलोममोहमदोज्झितः । यः स शान्तः परं लोकं याति पापविवर्जितः ॥ १,२२१.
देवता मुनयो नागा गन्धर्वा गुह्यका हर । धार्मिकं पूजयन्तीह न धनाढ्यं न कामिनम् ॥ १,२२१.
अनन्तबलवीर्येण प्रज्ञया पौरुषेण वा । अलभ्यं लभते मर्त्यस्तत्र का परिवेदना ॥ १,२२१.
सर्वसत्त्वदयालुत्वं सर्वेन्द्रियविनिग्रहः । सर्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम् ॥ १,२२१.
पश्यन्निवाग्रतो मृत्युं यो धर्मं नाचरेन्नरः । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ १,२२१.
भ्रूणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः । भूमिं सर्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते ॥ १,२२१.
न गोदानात्परं दानं किञ्चिदस्तीति मे मतिः । या गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम् ॥ १,२२१.
नान्नदानात्परं दानं किञ्चिदस्ति वृषध्वज ! । अन्नेन धार्यते सर्वं चराचरमिदं जगत् ॥ १,२२१.
कन्यादानं वृषोत्सर्गस्तीर्थसेवा श्रुतं तथा । हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥ १,२२१.
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीम् । अन्नात्प्राणा बलं तेजश्चान्नाद्वीर्यं धृतिः स्मृतिः ॥ १,२२१.
कूपवापीतडागादीनारामांश्चैव कारयेत् । त्रिसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥ १,२२१.
साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते । कालेन तीर्थं फलति सद्यः साधुसमागमः ॥ १,२२१.
सत्यं दमस्तपः शौचं सन्तोषश्च क्षमार्जवम् । ज्ञानं शमो दया दानमेष धर्मः सनातनः ॥ १,२२१.
श्रीगरुडमहापुराणम् २२२ ब्रह्मोवाच । प्रायश्चित्तादि वक्ष्येऽहं नरकौघविमर्दनम् । मक्षिका विप्रुषो नारी भुवि तोयं हुताशनः । मार्जारो नकुलश्चैव शुचीन्येतानि नित्यशः ॥ १,२२२.
यः शूद्रोच्छिष्टसंस्पृष्टं प्रमादाद्भक्षयेद्द्विजः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १,२२२.
विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन । स्नानं जप्यञ्च कर्तव्यं दिनस्यान्ते च भोजनम् ॥ १,२२२.