यथासुखं वाग्यता जुषध्वमिति ब्रूयात् । बुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपेत् । तच्चसप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शराद्वीपे हंसाः सरसि मानसे ॥ १,२१८.
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दूरमध्वानं यूयं किमवसीदथ ॥ १,२१८.
ततस्तृप्यस्व दक्षिणाभिमुखो वामोपवीती तदुत्सृष्टाग्रतः । ओं अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिम् । इति भूमौ कुशोपरि सघृतमन्नं जलप्लुतं विकिरेत् ॥ १,२१८.
ततो ब्राह्मणक्रमेण जलगण्डूषं दत्त्वा पूर्ववत्सव्याहृतिकां गायत्त्रीं मधुवातेतित्र्यृचं जप्त्वा ओं रुचितं भवद्भिरिति देवब्राह्मणप्रश्रः । सुरुचितमिति तेनोक्ते ओं शेषमन्नमिति प्रश्रः । इष्टैः सह भोजनम् । पित्रादिब्राह्मणं वामोपवीतेन ओं तृप्ताः स्थ इति प्रश्रः । ओं तृप्ताः स्म इति तेनोक्ते भूम्यभ्युक्षणं मण्डलचतुष्कोणं ति लविकिरणम् ॥ १,२१८.
ओं अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा । इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा । इत्थं रेखामध्ये पितामहाय । ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके । ओं लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ओं अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम् । पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ओं पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत् । अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः ॥ १,२१८.
वामेनैव परावृत्य पुष्पदानम् । अक्षतञ्चारिष्टञ्चास्तु मे पुण्यं शान्तिपुष्टिदृ । दक्षिणामुखः अमी मदन्तः पितरो यथाभागमावृषायिषत इति जपः । वासः शिथिलीकृत्वाञ्जलिं कृत्वा ओं नमो वः पितरो नमो वः इति जपः । गृहान्नः पितरो दत्त इति गृहवीक्षणम् । ततः सदा वः पितरो द्वेष्म इति वीक्ष्य एतद्वः पितरो वास इत्युच्चार्य अमुकगोत्र एतत्ते वासः स्वधा इति सूत्रदानम् । वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं घृतं पयः इत्यादि पिण्डोपरि धारात्यागः ॥ १,२१८.
पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्डसेचनंपिण्डमावाह्य गन्धादिदानंपिण्डोपरि कुशपत्रञ्च दत्त्वा ओं अक्षन्नमीमदन्तह्य व प्रिया अधूषत अस्तोषतस्वभानवो विप्रा नविष्ठयामती । यो जान्विन्द्र ते हरीति त्रिर्जपः ॥ १,२१८.
ओं इत्थं मातामहादिब्राह्मणानामाचमनम् । ओं सुसुप्रोक्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा । ओं अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः । शिवा आपः सन्त्विति ब्राह्मणहस्ते जलदानम् । लक्ष्मीर्वसतिपुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वसति गोष्ठेषु सौमनस्यं सदास्तु ते । सौमनस्यमस्त्विति पुष्पदानम् । अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम । ओं अक्षतञ्चारिष्टञ्चास्तु इति यवतण्डुलदानम् ॥ १,२१८.
अमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विति पित्रादिब्राह्मणहस्ते तिलजलदानम् । अस्त्विति ब्राह्मणो वदेत् । एतन्मातामहादीनामक्षय्यमाशिषः । ओं अघोराः पितरः सन्तु गोत्रं नो वर्धतांदातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्त्विति । अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्चन । एताः सत्याशिषः सन्तु ॥ १,२१८.
सौमनस्यमस्तु । अस्त्वित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्थपवित्रमोचनम् । कुशपवित्रं गृहीत्वातेन कुशेन पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्येओं वाच्यतांों पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः स्वधोच्यताम् । अस्तुस्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं घृतमिति पिण्डोपरि वारिधारां दद्यात् ॥ १,२१८.
ततः ओं विश्वेदेवा अस्मिन्यज्ञे प्रीयन्तादेवब्राह्मणहस्ते यवोदकदानम् । ओं प्रीयन्तामिति तेनोक्ते ओं देवताभ्य इति त्रिर्जपेत् ॥ १,२१८.
अधोमुखः पिण्डपात्राणि चालयित्वा आचम्य दक्षिणोपवीती पूर्वाभिमुखः ओं अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय सपत्नीकाय श्राद्धप्रतिष्ठार्थदक्षिणामेतद्रजतं तुभ्यमहं सम्प्रददे इति दक्षिणां दद्यात् । इति देवूब्राह्मणाय दक्षिणादानम् ॥ १,२१८.
ततः पितृब्राह्मणे पिण्डाः सम्पन्ना इति प्रश्रः । सुसम्पन्ना इति पिण्डे क्षीरधारां दत्त्वा पिण्डचालनं अतिथिब्राह्मणे पिण्डपात्रमुत्तानं कृत्वा ओं वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्यमध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति पिण्डा दिविसर्जनंामावाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे आमागन्तां पितरा चामा सोमोऽमृतत्वेन गम्यात् । इति देवविसर्जनम् । ओं अभिगम्यतामिति पितृब्राह्मणविसर्जनम् । ब्राह्मणैरनुद्गतस्य निवर्तनम् । गवादिषु पिण्डप्रतिपादनमिति शेषः ॥ १,२१८.
अयं श्राद्धविधिः प्रोक्तः पठितः पापनाशनः । अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥ १,२१८.
अक्षया स्यात्पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा । इत्युक्तं पार्वणं श्राद्धं पितॄणां ब्रह्मलोकदम् ॥ १,२१८.
श्रीगरुडमहापुराणम् २१९ ब्रह्मोवाच । नित्यश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषवत् । ओं अमुकगोत्राणामस्मत्पितृपितामहानां अमुकशर्मणां सपत्नीकानां श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये । आसनादिकमत्र स्याद्विश्वेदेवाविवर्जितम् ॥ १,२१९.
वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषकम् । जातपुत्रमुखदर्शनादौ वृद्धि श्राद्धं पूर्वाभिमुखेषु दक्षिणोपवीतिषु सयवबदरकुशैर्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण कर्तव्यम् ॥ १,२१९.
दक्षिणजानु गृहीत्वा अद्यास्मदीयामुकवृद्धौ अमुकगात्राणामस्मत्प्रपितामहीपितामहीमातॄणाममुकदेवीनाममुकगोत्राणां श्राद्धे कर्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां श्राद्धं सिद्धान्नेनयुष्मासु मया कर्तव्यमिति देवब्राह्मणामन्त्रणम् । ओं करिष्यसीति तेनोक्त इत्थमेवापरदेवब्राह्मणामन्त्रणम् ॥ १,२१९.
ततः अमुकवृद्धौ अमुकगोत्राया मत्प्रपितामह्या अमुकदेव्या नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया कर्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् । करिष्यामीति तेनोक्ते इत्थमेव प्रमातामह्यादिब्राह्माणमन्त्रणम् ॥ १,२१९.
देवपितृसर्वदेवब्राह्मणं श्राद्धकरणानुज्ञापनम् । आसने ओं विश्वेदेवास आगत शृणुताम इमंर्ठ इवम् । तं बर्हिर्निषीदत । ओं विश्वेदेवाः शृणुतेमं इवं ये मे अन्तरिक्षे य उदद्यविष्ट । पे अग्निजिह्वा उतवा यदत्रा आसाद्यास्मिन्बर्हिषि मादयध्वम् । ओं आगच्छन्तु इति विश्वेदेवावाहनंगन्धादिदानम् । अच्छिद्रावधारणवाचनम् ॥ १,२१९.
ततः प्रपितामहीप्रभृतीनामनुज्ञापनमासनदानं गन्धादिदानञ्च अच्छिद्रावधारणवाचनम् । इत्थं पितामह्याः मातुः । ततः प्रपितामहादीनां अनुज्ञापनम् । आसनमावाहनङ्गन्धादिदानंवृद्धप्रमातामहादीनामनुज्ञापनादिकरणम् । ओं वसुसत्यसंज्ञकेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रतिषिद्धवर्जितं नम इति अन्नसङ्कल्पनम् । ओं अमुकगोत्रे ! मत्पितामहमुकदेवि नान्दीमुखि ! एतदन्नं सबदरं सदधि नमः । एवं मातामहप्रभातामहेभ्यः ॥ १,२१९.
एकोद्दिष्टं पुरोऽवश्यं तद्विशेषं वदे शृणु । प्रथमं निमन्त्रणं पादप्रक्षालनमासनम् । अद्य अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः प्रतिसांवत्सरिकमेकोद्दिष्टश्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये । श्राद्धकरणानुज्ञापनमासनं गन्धादिदानमन्नानुकल्पनम् । जप्यं निवीती । उत्तराभिमुखीभूयातिथिश्राद्धं कुर्यात् ॥ १,२१९.
ततस्मृप्तिं ज्ञात्वा दक्षिणाभिमुखीवामोपवीती उच्छिष्टसमीपे अग्निदग्धा इति अन्नविकिरणम् । अमुकगोत्रमत्पितरमुकदेवशर्मन्नेतत्ते जलमवनेनिक्ष्व ये चात्र त्वामनुयाश्च त्वामनुतस्मै ते स्वधा इति रेखोपरि वारिधारादानम् । शेषं पूर्ववत् ॥ १,२१९.
श्रीगरुडमहापुराणम् २२० ब्रह्मोवाच । सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयेऽहनि । कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम् ॥ १,२२०.
सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत् । पितामहादिब्राह्मणनिमन्त्रणम् । ओं पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः । वामपार्श्वे चासनदानम् । आवाहनम् । ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणंपात्रत्रयकरणंपात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम् ॥ १,२२०.
तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक्चालनम् । उद्धाटनं कृत्वाओं ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् । ओं ये समानाः समनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः । एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत् ॥ १,२२०.
ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम् । पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्तेऽन्य जलदानंहस्ताभ्यां पात्रमुत्थाप्य ओं या दिव्येति पठित्वा ओं अमुकगोत्र मत्पितामह अमुकदेवशर्मन् सपत्नीक एष ते अर्घ्यः स्वधा । पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम् ॥ १,२२०.
पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम् । अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत् । पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् । अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति ॥ १,२२०.
ततो देवप्रभृतिभ्य अपोशानं दद्यात् । अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात् । अस्मिन्नवसरे विकिरणम् । पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणमों स्वदितं भवद्भिरिति प्रश्रः । ओं अमुकगोत्र मत्पितः अमुकशर्मन् सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु । ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत् । पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम् । अतिथिब्राह्मणे स्वदितादिप्रश्रः । ब्राह्मणानामाचमनम् । भुक्तिक्रमेण ताम्बूलदानम् । सुप्रोक्षितमस्तु शिवा आपः सन्तुवृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम् । गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम् ॥ १,२२०.
अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम् ॥ १,२२०.