उत्तरे शिखरे जाते भूम्यां पर्वतवासिनी । ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथासुखम् ॥ १,२१७.
thumb|पार्वणश्राद्ध. श्रीगरुडमहापुराणम् २१८ ब्रह्मोवाच । व्यास ! श्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् । पूर्वं निमन्त्रयेद्विप्रान्विशेषाद्ब्रह्मचारिणः ॥ १,२१८.
प्रदक्षिणोपवीतेन देवान्वामोपवीतिना । पितॄन्निमन्त्रयेत्पादौ क्षालयेद्वाक्यमन्त्रतः ॥ १,२१८.
ओं स्वागतं भवद्भिरिति प्रश्रः । ओं सुस्वागतामिति तैरुक्ते ओं विश्वेभ्यो देवेभ्य एतत्पादोदकमर्घ्यं स्वाहेति देवब्राह्मणपादयोर्देवतीर्थेनाभुग्नकुशसहितजलदानम् ॥ १,२१८.
ततो दक्षिणा भिमुखेन वामोपवीतेनामुकगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्मभ्य एतत्पादोदकमर्घ्यं स्वधेति पित्रादिब्राह्मणपादयोः पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् ॥ १,२१८.
एवं मातामहादिभ्यः । एतदाचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते एषवोर्ऽघ्य इति ब्राह्मणहस्ते पुष्पदानम् ॥ १,२१८.
ओं सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यमिति सप्तव्याहृतिभिः पूर्वमुखन्देवब्राह्मणोपवेशनम् । उत्तरदिङ्मुखंपितृब्राह्मयोणोपवेशनम् । ओं देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्तुते इति त्रिर्जपेत् ॥ १,२१८.
ओं अद्यास्मिन्देशे अमुकमासे अमुकराशिङ्गते सवितर्यमुकतिथावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथानामशर्मणां विश्वेदेवपूर्वकन्दृश्राद्धं करिष्ये । ओं विश्वेभ्यो देवभ्यः स्वाहा ओं विश्वेदेवानावाहयिष्ये । आवाहयेत्युक्ते ओं विश्वेदेवाः स आगत शृणुतामिमं हवम् । एदं बर्हिर्निषीदत ओं विश्वेदेवाः शृणुतेमं इवं मे ये अन्तरिक्षे य उपद्यविष्ट । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् । ओं ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि । ओं आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते । ओं अपहतासुरा रक्षांसि वेदिषद इति त्रित्रिर्यवविकिरणम् ॥ १,२१८.
ओं पात्रमहं करिष्ये । ओं करुष्वेत्यनुज्ञातः कृत्वा पात्रे पवित्रनिषेवणम् ॥ १,२१८.
ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्त्रवन्तु न इति पात्रे जलदानम् । ओं यवोऽसि यवयास्मद्वेषो यवयारातीरिति यवदानम् । गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां ता (त्वा) मिहोपह्वये श्रियमिति गन्धदानम् । ओं या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्षौत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योना सुहवा भवन्तु । एषोर्ऽघो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात् । ततः प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यत् । तदुपरि कुशदानम् ॥ १,२१८.
विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवासो युगयज्ञो पवीतानि नमः । गन्धादिदानमच्छिद्रमस्तु । अस्त्विति ब्राह्मणप्रतिवचनम् ॥ १,२१८.
ततः पितृपितामहप्रपितामहानां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम् । कुरुष्वेति ब्राह्मणैरुक्ते । ओं देवताभ्यः पितृभ्यश्च इतित्रिर्जपेत् ॥ १,२१८.
ओं अमुकगोत्रेब्योऽस्मत्पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधा इति ब्राह्मणवामे आसनदानम् । ओं पितॄनावाहयिष्ये । ओं । आवाहयेत्युक्ते ओं उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नु शत आवह पितॄन्हविषे उत्तवे । ओं आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेवन्त्वस्मानित्यावाहनम् । ओं अपहता सुरा रक्षांसि वेदिषदः इति तिलविकिरणम् । पूर्ववक्त्रमेण स्थापितपात्रेषूदकदानम् । ओं तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄंल्लोकान्प्रीणीहि नः स्वाहा इति तिलदानम् ॥ १,२१८.
गन्धपुष्पे हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिव्येति पठित्वा अमुकगोत्रास्मत्पितः ! अमुकदेवशर्मन् ! सपत्नीक ! एष तेऽर्घ्यः स्वधा । अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ओं पितृभ्यः स्थानमसीत्यधोमुखपात्रस्थापनम् ॥ १,२१८.
ओं शुन्धन्तां लोकाः पितृसदनाः पितृसदनमसि । अधोमुखपात्त्रस्पर्शनम् । अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्य एतानि गन्धपुष्पधूपदीपवासोगुणसोत्तरीययज्ञोपवीतानि वः स्वधा पितृतीर्थेन गन्धादिदानम् । गन्धादिदानमक्षय्यमस्तु । संकल्पसिद्धिरस्तु । ब्राह्मणवचनम् । एवं मातामहादीनामनुज्ञापनादिकर्म । ओं यादिव्येतिभूमिसंमार्जनम् । ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीती पितृब्राह्मणमों अग्नौ करणमहं करिष्ये । ओं कुरुष्वेति तेनोक्ते ओं अग्नये कव्यवाहनाय स्वाहा इति आहुतिद्वयं देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्धं पित्रादिपात्रे मातामहादिपात्रे च निः क्षिपेत् ॥ १,२१८.
पात्रमुद्रादि निधाय कुशं दत्त्वा अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा ओं पृथिवीते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा पात्राभिमन्त्रणम् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । विष्णो हव्यंरक्षस्व इत्यन्नमध्ये अधोमुखद्विजाङ्गुष्ठनिवेशनम् ॥ १,२१८.
अपहतेति त्रिर्यवविकिरणम् । ओं निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया । रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे इति सिद्धार्थविकिरणम् ॥ १,२१८.
ततो धूरिलोचनसंज्ञकेभ्योदवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहेति वारिकुशाद्यैरनुसङ्कल्पनम् । ओं अन्नमिदमक्षय्यमस्तु ओं संङ्कल्पसिद्धिरस्तु ॥ १,२१८.
ततो विपरीतोपवीतेन सव्यञ्जनं सघृतमन्नं पित्रादि ब्राह्मणपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ओं पृथिवी ते पात्रं इति मन्त्रेण उत्तानाभ्यां पात्रं गृहीत्वा ओं इदं विष्णोरित्यन्नोपरि उत्तानं द्विजाङ्गुष्ठं निवेशयेत् । ओं अपहतेति तिलविकिरणम् । भूमिपातितवामजानुः अमुकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं स्वधा । अन्नं सङ्कल्प्य ओं ऊर्जं वहन्तीरमृतं घृत पयः कीलालं परिस्त्रुतं स्वधास्तु तर्पयत मे पितरम् । दक्षिणामुखवरिधारत्यागः ॥ १,२१८.
ओं श्राद्धमिदमच्छिद्रमस्तु ओं सङ्कल्पसिद्धरस्तु । ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयातिति विसजयित्वा ओं मधुवाता ऋतायते मधुक्षरन्तु सिन्धवः माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुत्पार्थिवं रजः । मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिः मधुमानस्तु सूर्यो माध्वीर्गावो भवन्तु नः । मधु मधु मधु इति जपः ॥ १,२१८.
यथासुखं वाग्यता जुषध्वमिति ब्रूयात् । बुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपेत् । तच्चसप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शराद्वीपे हंसाः सरसि मानसे ॥ १,२१८.
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दूरमध्वानं यूयं किमवसीदथ ॥ १,२१८.
ततस्तृप्यस्व दक्षिणाभिमुखो वामोपवीती तदुत्सृष्टाग्रतः । ओं अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिम् । इति भूमौ कुशोपरि सघृतमन्नं जलप्लुतं विकिरेत् ॥ १,२१८.
ततो ब्राह्मणक्रमेण जलगण्डूषं दत्त्वा पूर्ववत्सव्याहृतिकां गायत्त्रीं मधुवातेतित्र्यृचं जप्त्वा ओं रुचितं भवद्भिरिति देवब्राह्मणप्रश्रः । सुरुचितमिति तेनोक्ते ओं शेषमन्नमिति प्रश्रः । इष्टैः सह भोजनम् । पित्रादिब्राह्मणं वामोपवीतेन ओं तृप्ताः स्थ इति प्रश्रः । ओं तृप्ताः स्म इति तेनोक्ते भूम्यभ्युक्षणं मण्डलचतुष्कोणं ति लविकिरणम् ॥ १,२१८.
ओं अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा । इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा । इत्थं रेखामध्ये पितामहाय । ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके । ओं लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ओं अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम् । पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ओं पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत् । अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः ॥ १,२१८.
वामेनैव परावृत्य पुष्पदानम् । अक्षतञ्चारिष्टञ्चास्तु मे पुण्यं शान्तिपुष्टिदृ । दक्षिणामुखः अमी मदन्तः पितरो यथाभागमावृषायिषत इति जपः । वासः शिथिलीकृत्वाञ्जलिं कृत्वा ओं नमो वः पितरो नमो वः इति जपः । गृहान्नः पितरो दत्त इति गृहवीक्षणम् । ततः सदा वः पितरो द्वेष्म इति वीक्ष्य एतद्वः पितरो वास इत्युच्चार्य अमुकगोत्र एतत्ते वासः स्वधा इति सूत्रदानम् । वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं घृतं पयः इत्यादि पिण्डोपरि धारात्यागः ॥ १,२१८.
पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्डसेचनंपिण्डमावाह्य गन्धादिदानंपिण्डोपरि कुशपत्रञ्च दत्त्वा ओं अक्षन्नमीमदन्तह्य व प्रिया अधूषत अस्तोषतस्वभानवो विप्रा नविष्ठयामती । यो जान्विन्द्र ते हरीति त्रिर्जपः ॥ १,२१८.
ओं इत्थं मातामहादिब्राह्मणानामाचमनम् । ओं सुसुप्रोक्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा । ओं अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः । शिवा आपः सन्त्विति ब्राह्मणहस्ते जलदानम् । लक्ष्मीर्वसतिपुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वसति गोष्ठेषु सौमनस्यं सदास्तु ते । सौमनस्यमस्त्विति पुष्पदानम् । अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम । ओं अक्षतञ्चारिष्टञ्चास्तु इति यवतण्डुलदानम् ॥ १,२१८.
अमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विति पित्रादिब्राह्मणहस्ते तिलजलदानम् । अस्त्विति ब्राह्मणो वदेत् । एतन्मातामहादीनामक्षय्यमाशिषः । ओं अघोराः पितरः सन्तु गोत्रं नो वर्धतांदातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्त्विति । अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्चन । एताः सत्याशिषः सन्तु ॥ १,२१८.
सौमनस्यमस्तु । अस्त्वित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्थपवित्रमोचनम् । कुशपवित्रं गृहीत्वातेन कुशेन पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्येओं वाच्यतांों पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः स्वधोच्यताम् । अस्तुस्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं घृतमिति पिण्डोपरि वारिधारां दद्यात् ॥ १,२१८.