गायत्त्रीच्छन्दो विश्वामित्र ऋषिस्त्रिपात् । समुद्राः कुक्षिश्चन्द्रादित्यौ लोचनौ । अग्निर्मुखम् । विष्णुर्हृदयम् । ब्रह्मरुद्रौ शिरः । रुद्रः शिखा । उपनय ने विनियोगः । ओं भूः पादे । भुवः जानुति । स्वः हृदये । महः शिरसि । जनः शिखायाम् । तपः कण्ठे । सत्यं ललाटे । ओं हृदयाय नमः । ओं भूः शिरसे स्वाहा । ओं भुवः शिखायै वौषट् । ओं स्वः कवचाय हुं । ओं भूर्भुवः स्वः अस्त्राय फट् ॥ १,२१७.
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यं तत्स्त्रिपदा । ओं आपो ज्योऽती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् । ओं सूर्यश्चेत्यादि । ओं आपः पुनन्त्वित्यादि । ओं अग्निश्चेत्यादि ॥ १,२१७.
ओं आयातु वरदे देवि ! पूर्वाह्ने ब्रह्मदेवता । गायत्त्री नाम या सन्ध्या रक्ताङ्गी रक्तवाससा । वरहंससमारूढा श्रीमत्पुष्करसंस्थिता ॥ १,२१७.
कमण्डलुधरा शान्ता अक्षमालाविधारिणी । आयातु वरदा देवी मध्याह्ने श्वेतरूपिणी ॥ १,२१७.
माहेश्वरी च सावित्री शुक्लवस्त्रादिमण्डिता । वृषस्कन्धसमारूढा त्रिशूलवरधारिणी ॥ १,२१७.
आयातु वरदा देवी अपराह्ने सरस्वती । अतसीकुसुमप्रख्या वैष्णवी गरुडासना ॥ १,२१७.
पीतवस्त्रा शङ्खचक्रगदापद्मसमन्विता । श्वेतवर्णा समुद्दिष्टा रविमण्डलसंस्थिता ॥ १,२१७.
श्वेतपद्मसनासीना श्वेतपुष्पोपशोभिता । ओं आपो हिष्ठा मयो भुवस्ता न उर्जे दधात नः ॥ १,२१७.
महेरणाय चक्षुसे । ओं यो वः शिवतमो रसः । तस्य भाजयेतेह नः । अशतीरिव मातरः । ओं तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जन यथा च नः । ओं सुमित्रिया न आप ओषधयः सन्तु ओं दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । ओं द्रुपदादिवमुमुचानः स्विन्नः स्नातो मलादिव । पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः । ओं ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततोरात्र्यजायत । ततः समुद्रोर्ऽणवः समुद्रादर्णवादधिसंवत्सरो अजायत । अहौरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ १,२१७.
गायत्त्र्या विश्वामित्र ऋषिर्गायत्त्रीछन्दः । सविता देवता जपे विनियोगः । ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । ओं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च । ओं तच्चक्षर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । शृणुयाम शरदः शतम् । ओं विश्वतश्चक्षुरुत विश्वतोमुखोविश्वतो बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपत्रैद्यार्वाभूमी जनयन्देव एकः । देवा गातुविदो नाङ्गविद्वानाद्भमितमनसस्पत इमं देवयज्ञं स्वाहा वातेधाः जपेत् ॥ १,२१७.
उत्तरे शिखरे जाते भूम्यां पर्वतवासिनी । ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथासुखम् ॥ १,२१७.
thumb|पार्वणश्राद्ध. श्रीगरुडमहापुराणम् २१८ ब्रह्मोवाच । व्यास ! श्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् । पूर्वं निमन्त्रयेद्विप्रान्विशेषाद्ब्रह्मचारिणः ॥ १,२१८.
प्रदक्षिणोपवीतेन देवान्वामोपवीतिना । पितॄन्निमन्त्रयेत्पादौ क्षालयेद्वाक्यमन्त्रतः ॥ १,२१८.
ओं स्वागतं भवद्भिरिति प्रश्रः । ओं सुस्वागतामिति तैरुक्ते ओं विश्वेभ्यो देवेभ्य एतत्पादोदकमर्घ्यं स्वाहेति देवब्राह्मणपादयोर्देवतीर्थेनाभुग्नकुशसहितजलदानम् ॥ १,२१८.
ततो दक्षिणा भिमुखेन वामोपवीतेनामुकगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्मभ्य एतत्पादोदकमर्घ्यं स्वधेति पित्रादिब्राह्मणपादयोः पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् ॥ १,२१८.
एवं मातामहादिभ्यः । एतदाचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते एषवोर्ऽघ्य इति ब्राह्मणहस्ते पुष्पदानम् ॥ १,२१८.
ओं सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यमिति सप्तव्याहृतिभिः पूर्वमुखन्देवब्राह्मणोपवेशनम् । उत्तरदिङ्मुखंपितृब्राह्मयोणोपवेशनम् । ओं देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्तुते इति त्रिर्जपेत् ॥ १,२१८.
ओं अद्यास्मिन्देशे अमुकमासे अमुकराशिङ्गते सवितर्यमुकतिथावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथानामशर्मणां विश्वेदेवपूर्वकन्दृश्राद्धं करिष्ये । ओं विश्वेभ्यो देवभ्यः स्वाहा ओं विश्वेदेवानावाहयिष्ये । आवाहयेत्युक्ते ओं विश्वेदेवाः स आगत शृणुतामिमं हवम् । एदं बर्हिर्निषीदत ओं विश्वेदेवाः शृणुतेमं इवं मे ये अन्तरिक्षे य उपद्यविष्ट । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् । ओं ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि । ओं आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते । ओं अपहतासुरा रक्षांसि वेदिषद इति त्रित्रिर्यवविकिरणम् ॥ १,२१८.
ओं पात्रमहं करिष्ये । ओं करुष्वेत्यनुज्ञातः कृत्वा पात्रे पवित्रनिषेवणम् ॥ १,२१८.
ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्त्रवन्तु न इति पात्रे जलदानम् । ओं यवोऽसि यवयास्मद्वेषो यवयारातीरिति यवदानम् । गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां ता (त्वा) मिहोपह्वये श्रियमिति गन्धदानम् । ओं या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्षौत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योना सुहवा भवन्तु । एषोर्ऽघो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात् । ततः प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यत् । तदुपरि कुशदानम् ॥ १,२१८.
विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवासो युगयज्ञो पवीतानि नमः । गन्धादिदानमच्छिद्रमस्तु । अस्त्विति ब्राह्मणप्रतिवचनम् ॥ १,२१८.
ततः पितृपितामहप्रपितामहानां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम् । कुरुष्वेति ब्राह्मणैरुक्ते । ओं देवताभ्यः पितृभ्यश्च इतित्रिर्जपेत् ॥ १,२१८.
ओं अमुकगोत्रेब्योऽस्मत्पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधा इति ब्राह्मणवामे आसनदानम् । ओं पितॄनावाहयिष्ये । ओं । आवाहयेत्युक्ते ओं उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नु शत आवह पितॄन्हविषे उत्तवे । ओं आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेवन्त्वस्मानित्यावाहनम् । ओं अपहता सुरा रक्षांसि वेदिषदः इति तिलविकिरणम् । पूर्ववक्त्रमेण स्थापितपात्रेषूदकदानम् । ओं तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄंल्लोकान्प्रीणीहि नः स्वाहा इति तिलदानम् ॥ १,२१८.
गन्धपुष्पे हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिव्येति पठित्वा अमुकगोत्रास्मत्पितः ! अमुकदेवशर्मन् ! सपत्नीक ! एष तेऽर्घ्यः स्वधा । अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ओं पितृभ्यः स्थानमसीत्यधोमुखपात्रस्थापनम् ॥ १,२१८.
ओं शुन्धन्तां लोकाः पितृसदनाः पितृसदनमसि । अधोमुखपात्त्रस्पर्शनम् । अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्य एतानि गन्धपुष्पधूपदीपवासोगुणसोत्तरीययज्ञोपवीतानि वः स्वधा पितृतीर्थेन गन्धादिदानम् । गन्धादिदानमक्षय्यमस्तु । संकल्पसिद्धिरस्तु । ब्राह्मणवचनम् । एवं मातामहादीनामनुज्ञापनादिकर्म । ओं यादिव्येतिभूमिसंमार्जनम् । ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीती पितृब्राह्मणमों अग्नौ करणमहं करिष्ये । ओं कुरुष्वेति तेनोक्ते ओं अग्नये कव्यवाहनाय स्वाहा इति आहुतिद्वयं देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्धं पित्रादिपात्रे मातामहादिपात्रे च निः क्षिपेत् ॥ १,२१८.
पात्रमुद्रादि निधाय कुशं दत्त्वा अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा ओं पृथिवीते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा पात्राभिमन्त्रणम् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । विष्णो हव्यंरक्षस्व इत्यन्नमध्ये अधोमुखद्विजाङ्गुष्ठनिवेशनम् ॥ १,२१८.
अपहतेति त्रिर्यवविकिरणम् । ओं निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया । रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे इति सिद्धार्थविकिरणम् ॥ १,२१८.
ततो धूरिलोचनसंज्ञकेभ्योदवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहेति वारिकुशाद्यैरनुसङ्कल्पनम् । ओं अन्नमिदमक्षय्यमस्तु ओं संङ्कल्पसिद्धिरस्तु ॥ १,२१८.
ततो विपरीतोपवीतेन सव्यञ्जनं सघृतमन्नं पित्रादि ब्राह्मणपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ओं पृथिवी ते पात्रं इति मन्त्रेण उत्तानाभ्यां पात्रं गृहीत्वा ओं इदं विष्णोरित्यन्नोपरि उत्तानं द्विजाङ्गुष्ठं निवेशयेत् । ओं अपहतेति तिलविकिरणम् । भूमिपातितवामजानुः अमुकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं स्वधा । अन्नं सङ्कल्प्य ओं ऊर्जं वहन्तीरमृतं घृत पयः कीलालं परिस्त्रुतं स्वधास्तु तर्पयत मे पितरम् । दक्षिणामुखवरिधारत्यागः ॥ १,२१८.
ओं श्राद्धमिदमच्छिद्रमस्तु ओं सङ्कल्पसिद्धरस्तु । ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयातिति विसजयित्वा ओं मधुवाता ऋतायते मधुक्षरन्तु सिन्धवः माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुत्पार्थिवं रजः । मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिः मधुमानस्तु सूर्यो माध्वीर्गावो भवन्तु नः । मधु मधु मधु इति जपः ॥ १,२१८.