द्रुपदाद्यास्त्रिरावर्तेदयं गौरिति च त्र्यृचम् । अन्यांश्चैव तु मन्त्रान्वा स्मृतिदृष्टान्समाहितः ॥ १,२१४.
सव्याहृतिं सप्रणवां गायत्रीं वा जपेद्बुधः आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णमव्ययम् ॥ १,२१४.
विष्णोरायतनं त्वापः स एवाप्पतिरुच्यते । तस्यैवं तनवस्त्वेतास्तस्मात्तं ह्यप्सु संस्मरेत् ॥ १,२१४.
तद्विष्णोरिति मन्त्रेण निमज्याप्सु पुनः पुनः । गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥ १,२१४.
ओं इदमापप्रवहता स्वं मलं क्षाललोहितम् । यथात्वहोत्रामृतं यच्च शोफे अभीषणम् ॥ १,२१४.
आपो मा तस्मादेनसः पावमानश्च मुञ्चतु इविष्मतो विमा आपोहविष्मानाविरासति । हविष्मान् देव असुरो हविष्मानस्तु सूर्यः । देवीरापो अपा पत्न्या यश्च ऊर्मिर्हविष्यः इन्द्रियवान्मादित्यन्तनः तं देवेभ्यो देवता दाभुशुक्रलेभ्यस्तेषां भागकर्षिवसिसमुद्रस्य दक्षिण्याग्रयासिमेनापोग्रर्भिरश्मतमोधोः । आपो देवी मधुमतीरगृह्णन्तु ह्यन्नती राजस्वतिलाः । याभिर्मित्रावरुणस्य सिञ्चयाभिरिन्द्रमनयत्यन्न वाती वद्रुपदां शन्नो देवी अपामसृग्द्वयसंसूर्ये सन्तं समाहितं अपांरसस्य यो रस्य यो गृह्णास्युत्तमम् । आपो देवीरुपसूर्य मधुमतीवयस्याय प्रजाभ्यः तासा मास्थानात्वर्जिहतामोषधयः सपिप्पलाः । पुनन्तु मा पितरः सौम्यासः पुनन्त्वनापि पिता सहसाः पवित्रेण गतायुषा । पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण गतायुषा विश्वमायुर्व्यश्रवैः । अग्न आयूंषि परसत्माचरोर्जमिषञ्च त्वचे वावस्वत्वच्छूनाम् । पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः ! पुनीहि मा । पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूंरनु । यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्मा तेन पुनातु मा । पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्मपुनीमहे । वैश्वदेवीः पुनती देव्या गृभ्नास्यामिसावक्ष्यस्तान्नोवीत पूज्याः । तयामदन्तः सधमादेषु वयं स्याम पतयो रयीणाम् । चित्प तिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपूतस्य यत्कामः । प्रणितच्छकेयं देवो वाक्पतिर्मा सविता त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते ! पवित्रपूतस्य चत्कामः । पुनस्तच्छकेयं द्युपतिं अयं गौः पृश्रिरक्रमीसदशशतं मातरं पुनः पितरञ्च प्रयस्मः । देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनातच्छकेयम्? । ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ १,२१४.
स्नात्वैवं वाससी धौते अच्छिन्ने परिधाय च । प्रक्षाल्य च मृदाद्भिश्च हस्तौ प्रक्षाल्य वै तदा ॥ १,२१४.
आचान्ते पुनाराचामेन्मन्त्रेण स्नानभोजने । द्रुपदां च त्रिरावर्त्य तथा चैवाघमर्षणम् ॥ १,२१४.
आचम्याप्लाव्य चात्मानं त्रिराचम्यशनेरसून् । अथोपतिष्टेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिः ॥ १,२१४.
प्रक्षिप्योदकमद्धूय उदुत्यं चित्रमित्यपि । तच्चक्षुर्देव इति च हंसः शुचिषदित्यपि ॥ १,२१४.
एताञ्जपेदूर्ध्वबाहुः सूर्यमीक्ष्य समाहितः । गायत्त्रीं च तथा शक्त्या उपस्थाय दिवाकरम् ॥ १,२१४.
विभ्राडित्यनुवाकेन सूक्तेन पुरुषस्य च । शिवसङ्कल्पेन च तथा मण्डलब्राह्मणेन च ॥ १,२१४.
दिवाकीर्त्या तथा चान्यैः सौरैर्मन्त्रैश्च शक्तितः । जपयज्ञस्तु कर्तव्यः सर्वदेवप्रणीतकैः ॥ १,२१४.
अध्यात्मविद्यां विधिवज्जपेद्वा जपसिद्धये । सव्यं कृत्वा त्रिराचम्य श्रियं मेधां धृतिं क्षितिम् ॥ १,२१४.
वाचं वागीश्वरीं पुष्टिं तुष्टिञ्च परितर्पयेत् । उमामरुन्धतीं चैव शचीं मातरमेव च ॥ १,२१४.
जयां च विजयां चैव सावित्रीं शान्तिमेव च । स्वाहां स्वधां धृतिं चैव तथैवादितिमुत्तमाम् ॥ १,२१४.
ऋषिपत्नीश्च कन्याश्च तर्पयेत्काम्यदेवताः । सर्वमङ्गलकामस्तु तर्पयेत्सर्वमङ्गलाम् ॥ १,२१४.
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विदं ब्रुवन् । क्षिपेदपोऽञ्जलींस्त्रींश्च कुर्वन्काङ्क्षेत तर्पणम् ॥ १,२१४.
श्रीगरुडमहापुराणम् २१५ ब्रह्मोवाच । तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टिदम् ॥ १,२१५.
ओं मोदास्तृप्यन्ताम् । ओं प्रमोदास्तृप्यन्ताम् । ओं सुमुखास्तृप्यन्ताम् । ओं दुर्मुखास्तृप्यन्ताम् । ओं विघ्नास्तृप्यन्ताम् । ओं विघ्नकर्तारस्तृप्यन्ताम् । ओं छन्दांसि तृप्यन्ताम् । ओं वेदास्तृप्यन्ताम् । ओं ओषधयस्तृप्यन्ताम् । ओं सनातनस्तृप्यताम् । ओं इतराचार्यास्तृप्यन्ताम् । ओं संवत्सरःसावयवस्तृप्यताम् । ओं देवास्तृप्यन्ताम् । ओं अप्सरसस्तृप्यन्ताम् । ओं देवान्धकास्तृप्यन्ताम् । ओं सागरस्तृप्यन्ताम् । ओं नागास्तृप्यन्ताम् । ओं पर्वतास्तृप्यन्ताम् । ओं सरिन्मनुष्या यक्षास्तृप्यन्ताम् । ओं रक्षांसि तृप्यन्ताम् । ओं पिशाचास्तृप्यन्ताम् । ओं सुपर्णास्तृप्यन्ताम् । ओं भूतानि तृप्यन्ताम् । ओं भूतग्रामाश्चतुर्विधास्तृप्यन्ताम् । ओं दक्षस्तृप्यताम् । ओं प्रचेतास्तृप्यताम् । ओं मरीचिस्तृप्यताम् । ओं आत्रिस्तृप्यताम् । ओं अङ्गिरास्तृप्यताम् । ओं पुलस्त्यस्तृप्यताम् । ओं पुलहस्तृप्यताम् । ओं क्रतुस्तृप्यताम् । ओं नारदस्तृप्यताम् ! ओं भृगुस्तृप्यताम् । ओं विश्वामित्रस्तृप्यताम् । ओं रैवतस्तृप्यताम् । ओं चाक्षुषस्तृप्यताम् । ओं महातेजास्तृप्यताम् । ओं वैवस्वतस्तृप्यताम् । ओं ध्रुवस्तृप्यताम् । ओं धवस्तृप्यताम् । ओं अनिलस्तृप्यताम् । ओं प्रभासस्तृप्यताम् ॥ १,२१५.
नीवीती । ओं सनकस्तृप्यताम् । ओं सनन्दनस्तृप्यताम् । ओं सनातनस्तृप्यताम् । ओं कपिलस्तृप्यताम् । ओं आसुरिस्तृप्यताम् । ओं वोढुस्तृप्यताम् । ओं पञ्चशिखस्तृप्यताम् । ओं मनुष्याणां कव्यवाहस्तृप्यताम् । ओं अनलस्तृप्यन्ताम् । ओं सोमस्तृताम् । ओं यमस्तृप्यताम् । ओं अर्यमातृप्यताम् ॥ १,२१५.
प्राचीनावीती । ओं अग्निष्वात्ताः पितरस्तृप्यन्ताम् । ओं सोमपाः पितरस्तृप्यन्ताम् । ओं बर्हिषदः पितरस्तृप्यन्ताम् । यमाय नमः । धर्मराजाय नमः । मृत्यवे नमः । अन्तकाय नमः । वैवस्वताय नमः । कालाय नमः । सर्वभूतक्षयाय नमः । औदुम्बराय नमः! दध्नाय नमः । नीलाय नमः । परमेष्ठिने नमः । वृकोदराय नमः । चित्राय नमः । चित्रगुप्ताय नमः ॥ १,२१५.
ब्रह्मादिस्तम्बपर्यन्तं जगत्तृप्यतु । ओं पितृभ्यः स्वधा नमः । ओं पितामहेभ्यः स्वधा नमः । ओं प्रपितामहेभ्यः स्वधा नमः । ओं मातृभ्यः स्वधानमः । ओं पितामहीभ्यः स्वधा नमः । ओं प्रपितामहीभ्यः स्वधा नमः । ओं मातामहेभ्यः स्वधा नमः । ओं प्रमातामहेभ्यः स्वधा नमः । ओं वृद्धप्रमातामहेभ्यः स्वधानमः तृप्यतामिति । उदीरतामवर उत्परासो उन्मध्यमाः पितरः सोम्यासः । असुंय ईयुरवृका ऋतज्ञास्तेनोऽवन्तुपितरोहवेषु । गोत्रोच्चारणेन प्रथमाञ्जलिः पितुः । ओं अङ्गिरसो नः पितरोदृ । अथर्वाणोभृगवःदृ । तेषां वयं सुमतौ यज्ञियानां अपि भद्रे सौमनसे स्याम । ओं आयन्तु नः पितरः सौम्यासोग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् ॥ १,२१५.
ओं ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन् । ओं पितृभ्यः स्वधा नमः । ओं पितामहेभ्यः स्वधा नमः । ओं प्रपितामहेभ्यः स्वधान नमः । ओं मातामहेभ्यः स्वधा नमः । ओं प्रमातामहेभ्यः स्वधा नमः । ओं वृद्धप्रमातामहेभ्यः स्वधा नमः । पितामहस्यदृ । ओं अक्षन्पितरो अमीमदन्त पितरो अमी तृप्यन्तः पितरः शुं(स्व) धध्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वा रथपति ते जातवेदाः स्वधाभिर्यज्ञं सुकृतं जुपस्व? । ओं णदुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता मधु मान्नो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः ॥ १,२१५.
प्रपितामहस्याञ्जलिदानम् । ओं नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे । नमो वः पितरो गृहान्न पितरो दत्तः । नमो वः पितरो दध्मे तद्वः पितरो वासः । मातामहानां त्रिरञ्जलिदृ । ततो मात्रादीनान्दृ ॥ १,२१५.
ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः । ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ १,२१५.
श्रीगरुडमहापुराणम् २१६ ब्रह्मोवाच । वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् । प्रज्वाल्य चाग्निं पर्युक्ष्यओं क्रष्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानत् । ओं पावक वैश्वानर इदमासनं अरणीगर्भसंस्कृततेजोरूप महाब्रह्मन्मुहूर्तास्त्रिषु वैश्वानरं प्रतिबोधयामि । ओं वैश्वानरे न उभयं आप्रयातु परावतः अग्निर्न स्वद्युतीरूपपृष्ठो दिवि पृष्ठोऽश्वि पृथिव्यां पृष्ठा विवेवा ओषधीचाविवेश वैश्वानरः सहसा पृष्ठोऽग्निः नमो दिव्य स षष्ठां नक्तम् ॥ १,२१६.
ओं प्रजापतये स्वाहा । ओं सोमाय स्वाहा । ओं बृहस्पतये स्वाहा । ओं अग्निषोमाभ्यां स्वाहा । ओं इन्द्राग्निभ्यां स्वाहा । ओं द्यावापृथिवीभ्यां स्वाहा । ओं इन्द्राय स्वाहा । ओं विश्वेभ्यो देवेभ्यः स्वाहा । ओं ब्रह्मणे स्वाहा । ओं अद्भ्यः स्वाहा । ओं ओषधिवनस्पतिभ्यः स्वाहा । ओं ग्रह्याय स्वाहा । ओं देवदेवताभ्यः स्वाहा । ओं इन्द्राय स्वाहा । ओं इन्द्रपुरुषेभ्यः स्वाहा । ओं यमाय स्वाहा । ओं यमपुरुषाय स्वाहा । ओं सर्वेभ्यो भूतेभ्यो दिवाचारिभ्यः स्वाहा । ओं वसुधापितृभ्यः स्वाहा । ओं ये भूता प्रचरन्ति दीनाच निमिहन्तो भुवनस्य मध्ये । तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु । ओं आचाण्डालपतिर्ददातु आचाण्डालपतितवायसेभ्यः ॥ १,२१६.
श्रीगरुडमहापुराणम् २१७ ब्रह्मोवाच । अथ सन्ध्याविधं वक्ष्ये द्विजातीनां समासतः । अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ १,२१७.
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १,२१७.