स्नाने चरितमित्येतत्समुद्दिष्टं महात्मभिः । ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ॥ १,२१३.
तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् । अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ १,२१३.
होमो दैवी बलिर्भौतो न यज्ञोऽतिथिपूजनम् । गवा गोष्ठे दशगुणं अग्न्यगारे शताधिकम् ॥ १,२१३.
सिद्धक्षेत्रेषु तीर्थेषु देवतायतनेषु च । सहस्रशतकोटीनामनन्तं विष्णुसन्निधौ ॥ १,२१३.
पञ्चमे च तथा भागे संविभागो यथार्थतः । पितृदे वमनुष्याणां कोटीनां चोपदिश्यते ॥ १,२१३.
ब्राह्मणेभ्यः प्रदायाग्र यः सुहृद्भिः सहाश्नुते । स प्रेत्य लभते स्वर्गमन्नदानं समाचरन् ॥ १,२१३.
पूर्वं मधुरमश्रीयाल्लवणाम्लौ च मध्यतः । कटुतिक्तकषायांश्च पयश्चैव तथान्ततः ॥ १,२१३.
शाकं च रात्रौ भूमिष्ठमत्यन्तं च विवर्जयेत् । नचैकरससेवायां प्रसज्जेत कदाचन ॥ १,२१३.
समृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥ १,२१३.
अमावासी वसेदत्र एकहायनमेव वा ॥ १,२१३.
तत्र श्रीश्चैव लक्ष्मीश्च वसते नात्र संशयः । उदरे गार्हपत्याग्निः पृष्ठदेशे तु दक्षिणः ॥ १,२१३.
आस्ये चाहवनीयोऽग्निः सत्यः पर्व च मूर्धनि । यः पञ्चाग्नीनिमान्वेद आहिताग्निः स उच्यते ॥ १,२१३.
शरिरमापः सोमं च विविधं चान्नमुच्यते । प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥ १,२१३.
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्येतत्परिणतौ ममाप्यव्याहतं सुखम् ॥ १,२१३.
हस्तेन परिमार्ज्याथ कुर्यात्ताम्बूलभक्षणम् । श्रवणं चेतिहासस्य तत्कुर्यात्सुसमाहितः ॥ १,२१३.
इतिहासपुराणाद्यैः षष्ठसप्तमकेनयेत् । ततः सन्ध्यामुपासीत स्नात्वा वै पश्चिमां नरः ॥ १,२१३.
एतद्वा दिवसे प्रोक्तमनुष्ठानं मया द्विज । आचारं यः पठेद्विद्वाञ्छृणुयात्स दिवंव्रजेत् । आचारादिर्धर्मकर्ता केशवो हि स्मृतो द्विज ॥ १,२१३.
श्रीगरुडमहापुराणम् २१४ ब्रह्मोवाच । अथ स्नानविधिं वक्ष्ये स्नानमूला क्रिया यतः । मृद्गोमयतिलान्दर्भान्पुष्पाणि सुरभीणि च ॥ १,२१४.
आहरेत्स्नानकाले च स्नानार्थो प्रयतः शुचिः । गन्धोदकान्तं विविक्ते (धं) स्थापयेत्तान्यथ क्षितौ ॥ १,२१४.
त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः । अद्भिर्मृद्भिश्च चरणौ प्रक्षाल्याथ करौ तथा ॥ १,२१४.
उपवीती बद्धशिखः सम्यगाचम्य वाग्यतः । उरुं राजेत्यृचा तोयमुपस्थाय प्रदक्षिणम् ॥ १,२१४.
आवर्तयेत्तदुदकं ये ते शतमितित्र्यृचा ॥ १,२१४.
ओं उरुं हि राजा वरुणश्चकार सूर्याय पन्थानमन्वेत वा । प्रतिधाता च वक्तारस्ताहृदयाविपश्चित् । नमोऽग्न्यरुणाया भिष्टुतोवरुणस्य पाशः । वरुणाय नमः ॥ १,२१४.
ओं ये ते शतं वरुणये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा । सुमित्रियान इत्यबञ्जलिमाकृत्योत्तरेण तोयं पश्चाद्विराज्य चैव विनिः क्षिपेत् । ओं सुमित्रिया न आप ओषधयः सन्तु । दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥ १,२१४.
पादौ कटिं चैव पूर्वं मृद्भिस्त्रिभिस्त्रिभिः । प्रक्षाल्य हस्ता वाचम्य नमस्कृत्य जलं ततः ॥ १,२१४.
ओं इदं विष्णुर्विचक्रमे त्रेधा निधे पदं समूढमस्य पांसुरे । महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् ॥ १,२१४.
मार्जयेद्वै मृदाङ्गानि इदं विष्णुरिति त्वृचा । भास्कराभिमुखो मज्जेदापो अस्मानितित्यृचा ॥ १,२१४.
ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतष्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥ १,२१४.
ततोऽवृघृष्य पात्राणि निमज्योन्मज्य वै शनैः । गोमयेन विलिप्याथ मानस्तोक इत्यृचा ॥ १,२१४.
ओं मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान्रुद्रभामिनोऽबधीर्हविष्मन्तः सदमित्वा हवामहे ॥ १,२१४.