मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा । सरः सुदेवखातेषु तीर्थेषु च नदीषु च ॥ १,२१३.
स्नानमेव क्रिया यस्मात्क्रियास्नानमतः परम् । अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥ १,२१३.
मार्जनान्मज्जनैर्मन्त्रैः पापमाशु प्रणश्यति । नित्यं नैमित्तिकं चापि क्रियाङ्गं मलकर्षणम् ॥ १,२१३.
तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः । भूमिष्ठादुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥ १,२१३.
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते । तीर्थतोयं ततः पुण्यं गागं पुण्यं तु सर्वतः ॥ १,२१३.
गागं पयः पुनात्याशु पापमामरणान्तिकम् । गयायां च कुरुक्षेत्रे यत्तोयं समुपस्थितम् ॥ १,२१३.
तस्मात्तु गाङ्गमपरं जानीयात्तोयमुत्तमम् । पुत्रजन्मनि योगेषु तथा संक्रमणे रवेः ॥ १,२१३.
राहोश्च दर्शने स्नानं प्रशस्तं निशि नान्यथा । उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥ १,२१३.
प्राजापत्येन तत्तुल्यं महापातकनाशनम् । यत्फलं द्वादशाब्दानि प्राजापत्ये कृते भवेत् ॥ १,२१३.
प्रातः स्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः । य इच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ १,२१३.
प्रातः स्नायी भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ । यस्तु माघं समासाद्य प्रातः स्नायी हविष्यभुक् ॥ १,२१३.
इतिपापं महाघोरं मासादेव व्यपोहति । मातरं पितरं वापि भ्रातरं सुहृदं गुरुम् ॥ १,२१३.
यमुद्दिश्य निमज्जेत द्वादशांशं लभेत्तु सः । तुष्यत्यामलकैर्विष्णुरेकादश्या विशेषतः ॥ १,२१३.
श्रीकामः सर्वदा स्नानं कुर्वोतामलकैर्नरः । सन्तापः कीर्तिरल्पायुर्धनं निधनमेव च ॥ १,२१३.
आरोग्यं सर्वकामाप्तिरभ्यङ्गाद्भास्करादिषु । उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ॥ १,२१३.
तावच्छ्रीस्तिष्ठति प्रीता यावत्तैलं न संस्पृशेत् । एवं स्नात्वा पितॄन्देवान्मनुष्यांस्तर्पयेन्नरः ॥ १,२१३.
नाभिमात्रे जले स्थित्वा चिन्तयेदूर्जमानसः । आगच्छन्तु मे पितर इमं गृह्णन्त्वपोञ्जलिम् ॥ १,२१३.
त्रींस्त्रीनेवाञ्जलीन्दद्यादाकाशे दक्षिणे तथा । वसित्वा वसनं शुष्कं स्थलस्था स्तर्णबर्हिषि ॥ १,२१३.
विधिज्ञास्तर्पणं कुर्युर्न पात्रे तु कदाचन । यदपां क्रूरमांसात्तु यदमेध्यं तु किञ्चन ॥ १,२१३.
अशान्तं मलिनं यच्च तत्सर्वमपगच्छतु । गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ॥ १,२१३.
प्रक्षिपोद्दिशि नैरृत्यां रक्षोऽपहतये तु तत् । निषिद्धभक्षणाद्यत्तु पापाद्यच्च प्रतिग्रहात् ॥ १,२१३.
दुष्कृतं यच्च मे किञ्चिद्बाङ्मनः कायकर्मभिः । पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ॥ १,२१३.
सविता च भगश्चैव मुनयः सनकादयः । आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ॥ १,२१३.
क्षिपेदबञ्जलींस्त्रीस्तु कुर्वन्संक्षेपतर्पणम् । सुराणामर्चनं कुर्याद्ब्रह्मा दीनाममत्सरी ॥ १,२१३.
ब्राह्मवैष्णवरौद्रैश्च सावित्रैर्मैत्रवारुणैः । तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वदेवान्नमस्य च ॥ १,२१३.
नमस्कारेण पुष्पाणि विन्यसेत्तु पृथक्पृथक् । सर्वदेवमयं विष्णुं भास्करं चाप्यथार्चयेत् ॥ १,२१३.
दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा । अर्चितं स्याज्जगादिदं तेन सर्वं चराचरम् ॥ १,२१३.
अन्यैश्च तान्त्रिकैर्मन्त्रैः पूजयेच्च जनार्दनम् । आदावर्घ्यं प्रदातव्यं ततः पश्चाद्विलेपनम् ॥ १,२१३.
ततः पुष्पाञ्जलिं धूपमु पहारफलानि च । स्नानमन्तर्जले चैव मार्जनाचमनं तथा ॥ १,२१३.
जलाभिमन्त्रणं यच्च तीर्थस्य परिकल्पयेत् । अघमर्षणसूक्तेन त्रिवारं त्वेव नित्यशः ॥ १,२१३.