अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः । कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ १,२१३.
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेपि वा । उष्णे वर्षति शीते वा वर्धनं न निवर्तते ॥ १,२१३.
देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् । कुसीदं कुर्वतः सम्यक्संस्थितस्यैव जायते ॥ १,२१३.
लब्धलाभः पितॄन्देवान्ब्राह्मणांश्चैव पूजयेत् । ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ १,२१३.
वणिक्कुसीदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकम् । कृषीवलोऽन्नपानादियानशय्यासनानि च ॥ १,२१३.
राजभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् । पादेनास्य च यावक्यं कुर्यात्संचयमात्मवान् ॥ १,२१३.
अर्धेन चात्मभरणं नित्यनैमित्तिकांन्वितम् । पादं चेत्यर्थयामस्य मूलभूतं विवर्धयेत् ॥ १,२१३.
विद्या शिल्पं भूतिः सेवा गोरक्षा विपणिः कृषिः । वृत्तिर्भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १,२१३.
प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता । वैश्ये न्यायार्जिताः स्वार्थाः शूद्रे शुश्रूषयार्जिताः ॥ १,२१३.
नदी बहूदका शाकमृत्पर्णानि समित्कुशाः । आग्नेयो ब्रह्मघोषश्च विप्राणां धनमुत्तमम् ॥ १,२१३.
अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे । अमृतं तद्विदुर्देवास्तस्मात्तन्नैव वर्जयेत् ॥ १,२१३.
गुरुद्रव्यांश्चौज्जिहीर्षुरर्चिष्यन्दे वतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तुष्येत्तु स्वयं ततः ॥ १,२१३.
साधुतः प्रतिगृह्णीयादथ वासाधुतो द्विजः । गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ १,२१३.
एवं त्वक्षवृत्त्या वा कृत्वा भरणमात्मनः । कुर्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥ १,२१३.
चतुर्थे च तथा भागे स्नानार्थं मृद माहरेत् । तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥ १,२१३.
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् । मार्जनाचमावगाहाश्चाष्टस्नानं प्रकीर्तितम् ॥ १,२१३.
अस्नातस्तु पुमान्नार्हे जपाग्निहवनादिषु । प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ॥ १,२१३.
चाण्डालशवविष्ठाद्यान्स्पृष्ट्वा स्नानं रजस्वलाम् । स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हि तत् ॥ १,२१३.
पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम् । तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥ १,२१३.
जप्तुकामः पवित्राणि अर्चिष्यन्देवतातिथीन् । स्नानं समाचरेद्यस्तु क्रियाङ्गं तच्च कीर्तितम् ॥ १,२१३.
मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा । सरः सुदेवखातेषु तीर्थेषु च नदीषु च ॥ १,२१३.
स्नानमेव क्रिया यस्मात्क्रियास्नानमतः परम् । अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥ १,२१३.
मार्जनान्मज्जनैर्मन्त्रैः पापमाशु प्रणश्यति । नित्यं नैमित्तिकं चापि क्रियाङ्गं मलकर्षणम् ॥ १,२१३.
तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः । भूमिष्ठादुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥ १,२१३.
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते । तीर्थतोयं ततः पुण्यं गागं पुण्यं तु सर्वतः ॥ १,२१३.
गागं पयः पुनात्याशु पापमामरणान्तिकम् । गयायां च कुरुक्षेत्रे यत्तोयं समुपस्थितम् ॥ १,२१३.
तस्मात्तु गाङ्गमपरं जानीयात्तोयमुत्तमम् । पुत्रजन्मनि योगेषु तथा संक्रमणे रवेः ॥ १,२१३.
राहोश्च दर्शने स्नानं प्रशस्तं निशि नान्यथा । उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥ १,२१३.
प्राजापत्येन तत्तुल्यं महापातकनाशनम् । यत्फलं द्वादशाब्दानि प्राजापत्ये कृते भवेत् ॥ १,२१३.
प्रातः स्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः । य इच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ १,२१३.