पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् । न विष्णोः परमो देवस्तस्मात्तं पूजयेत्सदा ॥ १,२१३.
ब्रह्मविष्णुशिवान्देवान्न पृथग्भावयेत्सुधीः । लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ॥ १,२१३.
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । एतानि सततं पश्येदर्चयेच्च प्रदक्षिणम् ॥ १,२१३.
वेदस्याध्ययनं पूर्वं विचारोभ्यसनं जपः । तद्दानं चैव शिष्यभ्यो वेदाभ्यासो हि पञ्चधा ॥ १,२१३.
वेदार्थं यज्ञशास्त्राणि धर्मशास्त्राणि चैव हि । मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥ १,२१३.
इतिहा सपुराणानि लिखित्वायः प्रयच्छति । ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणीकृतम् ॥ १,२१३.
मृतीये च तथा भागे पोष्यवर्गार्थसाधनम् । माता पिता गुरुर्भ्राता प्रजा दीनाः समाश्रिताः ॥ १,२१३.
अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा उदाहृतः । भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥ १,२१३.
भरणं पोष्य वर्गस्य तस्माद्यत्नेन कारयेत् । स जीवति वरश्चैको बहुभिर्योपजीव्यति ॥ १,२१३.
जीवन्तो मृतकास्त्वन्ये पुरुषाः स्वोदरम्भराः । स्वकीयोदरपूर्तिश्च कुक्कुरस्यापि विद्यते ॥ १,२१३.
अर्थेभ्योऽपि विवृद्धेभ्यः सम्भूतेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १,२१३.
सर्वरत्नाकरा भूमिर्धान्यानि पशवः स्त्रियः । अर्थस्य कार्ययोगित्वादर्थ इत्यभिधीयते ॥ १,२१३.
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ १,२१३.
धनं तु त्रिविधं ज्ञेयं शुक्लं शबलमेव च । कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पृथक् ॥ १,२१३.
क्रमायत्तं प्रीतिदत्तं प्राप्तं च सह भार्यया । अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥ १,२१३.
वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् । याजनाध्यापने नित्यं विशुद्धश्च (द्धाच्च) प्रतिग्रहः ॥ १,२१३.
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । शुद्धार्थं लब्धकरजं दण्डाप्तं जयजं तथा ॥ १,२१३.
वैशेषिकं धनं दृष्टं वैश्यस्यापि विलक्षणम् । कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥ १,२१३.
कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं परम् (कृतम्) । आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः ॥ १,२१३.
बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः । सर्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ १,२१३.
अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः । कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ १,२१३.
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेपि वा । उष्णे वर्षति शीते वा वर्धनं न निवर्तते ॥ १,२१३.
देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् । कुसीदं कुर्वतः सम्यक्संस्थितस्यैव जायते ॥ १,२१३.
लब्धलाभः पितॄन्देवान्ब्राह्मणांश्चैव पूजयेत् । ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ १,२१३.
वणिक्कुसीदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकम् । कृषीवलोऽन्नपानादियानशय्यासनानि च ॥ १,२१३.
राजभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् । पादेनास्य च यावक्यं कुर्यात्संचयमात्मवान् ॥ १,२१३.
अर्धेन चात्मभरणं नित्यनैमित्तिकांन्वितम् । पादं चेत्यर्थयामस्य मूलभूतं विवर्धयेत् ॥ १,२१३.
विद्या शिल्पं भूतिः सेवा गोरक्षा विपणिः कृषिः । वृत्तिर्भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १,२१३.
प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता । वैश्ये न्यायार्जिताः स्वार्थाः शूद्रे शुश्रूषयार्जिताः ॥ १,२१३.
नदी बहूदका शाकमृत्पर्णानि समित्कुशाः । आग्नेयो ब्रह्मघोषश्च विप्राणां धनमुत्तमम् ॥ १,२१३.