खं मुखे नासिके वायुं नेत्रे सूर्यं श्रुती (तीर्दि) दिशः । प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदये स्पृशेत् ॥ १,२१३.
रुद्रं मूर्ध्ना समालभ्य प्रीणात्यथ शिखामृषीन् । बाहू यमेन्द्रवरुणकुबेरवसुधानलान् ॥ १,२१३.
अभ्युक्ष्य चरणौ विष्णुमिन्द्रं विष्णु करद्वयम् । अग्निर्वायुश्च सूर्येन्दुगिरयोऽङ्गुलिपर्वसु ॥ १,२१३.
गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः । उषः काले तु संप्राप्ते शौचं कृत्वा यथार्थवत् ॥ १,२१३.
ततः स्नानर्ं प्कुर्वीत दन्तधावनपूर्वकम् । मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥ १,२१३.
तस्मात्सर्वप्रयत्नेन कुर्याद्वै दन्तघावनम् । कदम्बबिल्वखदिरकरवीरवटार्जुनाः ॥ १,२१३.
यूथी च बृहती जाती करञ्जार्कातिमुक्तकाः । जम्बूमधूका पामार्गशिरीषोदुम्बरासनाः ॥ १,२१३.
क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने । कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ॥ १,२१३.
प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचामेत् । अमायां च तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ॥ १,२१३.
वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे । अभावे दन्त काष्ठस्य निषिद्धायां तथा तिथौ ॥ १,२१३.
अषां द्वादशगण्डूषैः कुर्वीत मुखशोधनम् । प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हितम् ॥ १,२१३.
सर्वमर्हति शुद्धात्मा प्रातः स्नायी जपादिकम् । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥ १,२१३.
स्त्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् । मनः प्रसादजननं रूपसौभाग्यवर्धनम् ॥ १,२१३.
शोकदुः खप्रशमनं गङ्गास्नानवदाचरेत् । अद्य हस्ते तु नक्षत्रे दशम्यां ज्येष्ठके सिते ॥ १,२१३.
दशपाप हरायां च अदत्वा दानकल्मषम् । विरुद्धाचरणं हिंसा परदारोपसेवनम् ॥ १,२१३.
पारुष्यानृतपैशुन्यमसम्बद्धाभिभाषणम् । परद्रव्याभिधानं च मनसानिष्टचिन्तनम् ॥ १,२१३.
एतद्दशाघघातार्थं गङ्गास्नानं करोम्यहम् । प्रातः संक्षेपतः स्नानं वानप्रस्थगृहस्थयोः ॥ १,२१३.
यतेस्त्रिषवणं स्नानं सकृत्त ब्रह्मचारिणः । आचम्य तीर्थमावाह्य स्नायात्स्मृत्वाव्ययं हरिम् ॥ १,२१३.
तिस्रः कोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः । उदयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १,२१३.
स हन्ति सूर्यं सन्ध्यायां नोपास्तिं कुरुते तु यः । दहन्ति मन्त्रपूतेन तोयेनानलरूपिणा ॥ १,२१३.
अहोरात्रस्य यः सन्धिः सा सन्ध्या भवतीति ह । द्विनाडिका भवेत्सन्ध्या यावद्भवति दर्शनम् ॥ १,२१३.
गन्ध्याकर्मावसाने तु स्वयं होमो विधीयते । स्वयं होमफलं यत्तु तदन्येन न जायते ॥ १,२१३.
ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥ १,२१३.
ब्रह्मा वै गार्हपत्याग्निर्दक्षिणाग्निस्त्रिलोचनः । विष्णुराहवनीयाग्निः कुमारः सत्य उच्यते ॥ १,२१३.
कृत्वा होमं यथाकालं सौरान्मन्त्राञ्जपेत्ततः । समाहितात्मा सावित्रीं प्रणवं च यथोदितम् ॥ १,२१३.
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । त्रिपदायां च सावित्र्यां न भयं विद्यते क्वचित् ॥ १,२१३.
गायत्त्रीं यो जपेन्नित्यं कल्यमुत्थाय मानवः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १,२१३.
श्वेतवर्णा समुद्दिष्टा कौशैयवसना तथा । अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥ १,२१३.
आवाह्य यजुपानेन तेजोऽसीति विधानतः । एतद्यजुः पुरा दैवैर्दृष्टिदर्शनकाङ्क्षिभिः ॥ १,२१३.
आदित्यमण्डलान्तः स्थां ब्रह्मलोकस्थितामपि । तत्रावाह्य जपित्वातो नमस्काराद्विसर्जयेत् ॥ १,२१३.