द्वितीया च तृतीया च तदर्धा परिकीर्तिता । उपविष्टस्तु विण्मूत्रं कर्तुं यस्तु न विन्दति ॥ १,२१३.
स कुर्यादर्धशौचं तु स्वस्य शौचस्य सर्वदा । दिवा शौचस्य रात्र्यर्धं यद्वा पादो विधीयते ॥ १,२१३.
स्वस्थस्य तु यथोद्दिष्टमार्तः कुर्याद्यथाबलम् । वसा शुक्रमसृङ्मज्जा लाला विण्मूत्रकर्णविट् ॥ १,२१३.
श्लेष्माश्रदूषिका स्वेदो द्वादशैते नृणां मलाः । मन्येत यावता शुद्धिं तावच्छौचं समाचरेत् ॥ १,२१३.
प्रमाणं शौचसंख्याया नादिष्टैरवशिष्यते । शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १,२१३.
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम् । त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ॥ १,२१३.
संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ १,२१३.
अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रे पुनः पुनः । कनिष्ठाङ्गष्ठयोर्नाभिं हृदयं तु तलेन वै ॥ १,२१३.
सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् । ऋचो यजूंषि सामानि त्रिः पठन्प्रीणयेत्क्रमात् ॥ १,२१३.
अथर्वाङ्गिरसौ पूर्वं द्विः प्रमार्ष्ट्यथ तन्सुखम् । इतिहासपुराणानि वेदाङ्गानि वेदाङ्गानि यथाक्रमम् ॥ १,२१३.
खं मुखे नासिके वायुं नेत्रे सूर्यं श्रुती (तीर्दि) दिशः । प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदये स्पृशेत् ॥ १,२१३.
रुद्रं मूर्ध्ना समालभ्य प्रीणात्यथ शिखामृषीन् । बाहू यमेन्द्रवरुणकुबेरवसुधानलान् ॥ १,२१३.
अभ्युक्ष्य चरणौ विष्णुमिन्द्रं विष्णु करद्वयम् । अग्निर्वायुश्च सूर्येन्दुगिरयोऽङ्गुलिपर्वसु ॥ १,२१३.
गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः । उषः काले तु संप्राप्ते शौचं कृत्वा यथार्थवत् ॥ १,२१३.
ततः स्नानर्ं प्कुर्वीत दन्तधावनपूर्वकम् । मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥ १,२१३.
तस्मात्सर्वप्रयत्नेन कुर्याद्वै दन्तघावनम् । कदम्बबिल्वखदिरकरवीरवटार्जुनाः ॥ १,२१३.
यूथी च बृहती जाती करञ्जार्कातिमुक्तकाः । जम्बूमधूका पामार्गशिरीषोदुम्बरासनाः ॥ १,२१३.
क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने । कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ॥ १,२१३.
प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचामेत् । अमायां च तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ॥ १,२१३.
वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे । अभावे दन्त काष्ठस्य निषिद्धायां तथा तिथौ ॥ १,२१३.
अषां द्वादशगण्डूषैः कुर्वीत मुखशोधनम् । प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हितम् ॥ १,२१३.
सर्वमर्हति शुद्धात्मा प्रातः स्नायी जपादिकम् । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥ १,२१३.
स्त्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् । मनः प्रसादजननं रूपसौभाग्यवर्धनम् ॥ १,२१३.
शोकदुः खप्रशमनं गङ्गास्नानवदाचरेत् । अद्य हस्ते तु नक्षत्रे दशम्यां ज्येष्ठके सिते ॥ १,२१३.
दशपाप हरायां च अदत्वा दानकल्मषम् । विरुद्धाचरणं हिंसा परदारोपसेवनम् ॥ १,२१३.
पारुष्यानृतपैशुन्यमसम्बद्धाभिभाषणम् । परद्रव्याभिधानं च मनसानिष्टचिन्तनम् ॥ १,२१३.
एतद्दशाघघातार्थं गङ्गास्नानं करोम्यहम् । प्रातः संक्षेपतः स्नानं वानप्रस्थगृहस्थयोः ॥ १,२१३.
यतेस्त्रिषवणं स्नानं सकृत्त ब्रह्मचारिणः । आचम्य तीर्थमावाह्य स्नायात्स्मृत्वाव्ययं हरिम् ॥ १,२१३.
तिस्रः कोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः । उदयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १,२१३.
स हन्ति सूर्यं सन्ध्यायां नोपास्तिं कुरुते तु यः । दहन्ति मन्त्रपूतेन तोयेनानलरूपिणा ॥ १,२१३.