तत्राप्यशक्तः करणे सदाचारं चरेद्वुधः । श्रुतिस्मृती ह विप्राणां लोचने कर्मदर्शने ॥ १,२१३.
श्रुत्युक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः । सिष्टाचारेण संप्राप्तस्त्रयो धर्माः सनातनाः ॥ १,२१३.
सत्यं दानं दयालोभो विद्येज्या पूजनं दमः । अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणम् ॥ १,२१३.
तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च । न लिप्यते पातकेन पद्मपत्रमिवाम्भसा ॥ १,२१३.
निवासमुख्या वर्णानां धर्माचाराः प्रकीर्तिताः । सत्यं यज्ञस्तपो दानमेतद्धर्मस्य लक्षणम् ॥ १,२१३.
अदत्तस्यानुपादानं दानमध्ययनं जपः । विद्या वित्तं तपः शौचं कुले जन्म त्वरोगिता ॥ १,२१३.
संसारोच्छित्तिहेतुश्च धर्मादेव प्रवर्तते । धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥ १,२१३.
इज्याध्ययनदानानि यथाशास्त्रं सनातनः । ब्रह्मक्षत्त्रियवैश्यानां सामान्यो धर्म उच्यते ॥ १,२१३.
याजनाध्ययने शुद्धे विशुद्धाच्च प्रतिग्रहः । वृत्तित्रयमिदं प्राहुर्मुनयः श्रेष्ठवर्णिनः ॥ १,२१३.
शस्त्रेणाजीवनं राज्ञो भूतानाञ्चाभिरक्षणम् । पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥ १,२१३.
शूद्रस्य द्विजशुश्रूषा द्विजानामनुपूर्वशः । गुरौ वासोऽग्निशुश्रूषा स्वाध्यायो ब्रह्मचारिणः ॥ १,२१३.
त्रिः स्नाता स्नापिता भैक्ष्यं गुरौ प्राणान्तिकी स्थितिः । समेखलो जटी दण्डी मुण्डी वा गुरुसंश्रयः ॥ १,२१३.
अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः । धर्मदारेषु कल्पेत पर्ववर्जं रतिक्रियाः ॥ १,२१३.
देवपित्रतितिभ्यश्च पूजादिष्वनुकल्पनम् । श्रुतिस्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः ॥ १,२१३.
जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम् । वने वासः पयोमूलनीवारफलवृत्तिता ॥ १,२१३.
प्रतिषिद्धान्निवृत्तिश्च त्रिः स्नानं व्रतधारिता । देवतातिथिपूजा च धर्मोऽयं वनवासिनः ॥ १,२१३.
सर्वारम्भपरित्यागो भिक्षान्नं वृक्षमूलता । निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥ १,२१३.
प्रियाप्रियपरिष्वङ्गेसुखदुः खाधिकारिता । सबाह्याभ्यन्तरे शौचं वाग्यमो ध्यानचारिता ॥ १,२१३.
सर्वैद्रियसमाहारो धारणाध्याननित्यता । भावसंशुद्धिरेत्येष परिव्राड्धर्म उच्यते ॥ १,२१३.
अहिंसा सूनृता वाणी सत्यशौचे क्षमा दया । वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ १,२१३.
यथोक्तकारिणः सर्वे प्रयान्ति परमां गतिम् । आ बोधात्स्वपनं यावत्गृहिधर्मं च वच्मि ते ॥ १,२१३.
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ १,२१३.
शर्वर्यन्ते समुत्थाय कृतशौचः समाहितः । स्नात्वा सन्ध्यामुपासीत सर्वकालमतन्द्रितः ॥ १,२१३.
प्रातः सन्ध्यामुपा सीत दन्तधावनपूर्विकाम् । उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः ॥ १,२१३.
रात्रौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा । छायायामन्धकारे वा रात्रौ वाहनि वा द्विजः ॥ १,२१३.
यथा तु समुखः कुर्यात्प्राणबाधाभयेषु च । गोमयाङ्गारवल्मीकफालाकृष्टे शुभे ॥ १,२१३.
मार्गोपजीव्यच्छायासु न मूत्रं च पुरीषकम् । अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषिकस्थलात् ॥ १,२१३.
परेषां शौचशिष्टाच्च श्मशानाच्च मृदं त्यजेत् । एकां लिङ्गे मृदं दद्याद्वाम हस्ते मृदं द्विधा ॥ १,२१३.
उभयोर्द्वे च दातव्ये मूत्रशौचं प्रचक्षते । एकां लिङ्गे गुदे तिस्त्रस्तथा वामकरे दश ॥ १,२१३.
पञ्च पादे दशैकस्मिन्करयोः सप्तमृत्तिकाः । अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥ १,२१३.