सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे । तौ जो गगौ समे पादे जतजा गुरुकद्वयम् ॥ १,२१०.
विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ । ततौ जगौ समे गः स्यात्पिङ्गलेन ह्युदाहृतम् ॥ १,२१०.
पादेऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ । समे नजौ जरौ गश्च वैतालीयं वदन्ति हि । वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम् ॥ १,२१०.
वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ ॥ १,२१०.
श्रीगरुडमहापुराणम् २११ सूत उवाच । प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः । तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥ १,२११.
आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः ॥ १,२११.
द्वितीयेऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे । लवली स्यात्तृतीयेऽथ पूर्ववच्चाष्ट काक्षरे । प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति ॥ १,२११.
(इति पदचतुरूर्ध्वप्रकरणम्) । सजौ सलौ च प्रथमे नसजा गो द्वितीयके । तृतीये भनभा गश्च चतुर्थे सजसा जगौ ॥ १,२११.
पूर्ववत्स्यात्सौरभकं तृतीयेऽघ्रौ रनौ भगौ । ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ ॥ १,२११.
(इत्युद्गताप्रकरणम्) । उपस्थितप्रचुपितं प्रथमेऽघ्रौ मसौ जभौ । गौ द्वितीये सनजरा गस्तृतीये ननौ च सः । नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत् ॥ १,२११.
तृतीर्येऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ ॥ १,२११.
आर्षभं तजराः पादे तृतीयेऽन्यच्च पूर्ववत् । पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत् ॥ १,२११.
(इत्युपस्थितप्रचुपितप्रकरणम्) । विषमाक्षरपादं वा पञ्चषट्कादि यावकम् । छन्दोऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत् ॥ १,२११.
श्रीगरुडमहापुराणम् २१२ सूत उवाच । प्रस्तार आद्यगोऽथो लः परतुल्योऽथ पूर्वगः । नष्टमध्ये समेंऽके लः समेऽर्धे विषमे गुरुः ॥ १,२१२.
प्रतिलोमगुणं लाद्यं द्विरुद्दिष्टक एकनुत् ॥ १,२१२.
संख्या द्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितम् । तावदर्धे तद्गुणितं द्विर्द्व्यूनन्तु तदन्ततः ॥ १,२१२.
परे पूर्णं परे पूर्णं मेरुः प्रस्तारतो भवेत् ॥ १,२१२.
लगसंख्या वृत्तसंख्या चाद्याङ्गुलमथोर्ध्वतः । संख्यैव द्विगुणैकोनाच्छन्दः सारोऽयमीरितः ॥ १,२१२.
श्रीगरुडमहापुराणम् २१३ सूत उवाच । हरेः श्रुत्वाब्रवीद्ब्रह्मा यथा व्यासाय शौनक । ब्राह्मणादिसमाचारं सर्वदं ते तथा वदे ॥ १,२१३.
श्रुतिस्मृती तु विज्ञाय श्रौतं कर्म समाचरेत् । श्रौतं कर्म न चेदुक्तं तदा स्मार्तं समाचरेत् ॥ १,२१३.
तत्राप्यशक्तः करणे सदाचारं चरेद्वुधः । श्रुतिस्मृती ह विप्राणां लोचने कर्मदर्शने ॥ १,२१३.
श्रुत्युक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः । सिष्टाचारेण संप्राप्तस्त्रयो धर्माः सनातनाः ॥ १,२१३.
सत्यं दानं दयालोभो विद्येज्या पूजनं दमः । अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणम् ॥ १,२१३.
तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च । न लिप्यते पातकेन पद्मपत्रमिवाम्भसा ॥ १,२१३.
निवासमुख्या वर्णानां धर्माचाराः प्रकीर्तिताः । सत्यं यज्ञस्तपो दानमेतद्धर्मस्य लक्षणम् ॥ १,२१३.
अदत्तस्यानुपादानं दानमध्ययनं जपः । विद्या वित्तं तपः शौचं कुले जन्म त्वरोगिता ॥ १,२१३.
संसारोच्छित्तिहेतुश्च धर्मादेव प्रवर्तते । धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥ १,२१३.
इज्याध्ययनदानानि यथाशास्त्रं सनातनः । ब्रह्मक्षत्त्रियवैश्यानां सामान्यो धर्म उच्यते ॥ १,२१३.
याजनाध्ययने शुद्धे विशुद्धाच्च प्रतिग्रहः । वृत्तित्रयमिदं प्राहुर्मुनयः श्रेष्ठवर्णिनः ॥ १,२१३.
शस्त्रेणाजीवनं राज्ञो भूतानाञ्चाभिरक्षणम् । पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥ १,२१३.