सा तु कुसुमविचित्रा जलोद्धतगती रसैः । जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥ १,२०९.
भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् । प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥ १,२०९.
गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ । प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥ १,२०९.
ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् । मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥ १,२०९.
नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः । प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥ १,२०९.
जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः । मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥ १,२०९.
मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ । ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥ १,२०९.
असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः । ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥ १,२०९.
ननौ भनौ प्रहरणकलिकेयं लगौ तथा । वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥ १,२०९.
भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् । नरना रलगाः पादे शर्करी प्रतिपादिता ॥ १,२०९.
चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा । रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥ १,२०९.
स्यान्मणिगुणनिकरो मालिनी ननमा ययौ । वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥ १,२०९.
एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः । मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥ १,२०९.
स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ । नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥ १,२०९.
रसरुद्रैः शिखरिणी यमौ नसभला गुरुः । वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥ १,२०९.
दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ । षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥ १,२०९.
मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः । नर्दटकं नजभजा जलौ गो यतिरेव च ॥ १,२०९.
सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत् । भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥ १,२०९.
रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ । शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥ १,२०९.
छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत् । सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥ १,२०९.
वृत्तं रजौ रजौ पादे रजौ गो लः कृतिर्भवेत् । त्रिसप्तकैः स्नग्धरा स्यात्प्रकृतिर्म्नभनैस्त्रियैः ॥ १,२०९.
दिगर्कैर्भद्रकं भ्रौ न्रौ नरना गो यथाकृतिः । नजौ भश्वाश्वललितं जभौ जभलगा भवेत् ॥ १,२०९.
मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ ननौ । नलौ गुरुश्च विकृतिश्छिन्ना संकृतिरुच्यते ॥ १,२०९.
पञ्चाश्वार्कैर्भतौ तन्वी नसभा भनया गणाः । क्रौञ्चपदा बाणशरवसुशैलैर्भमौ सभौ ॥ १,२०९.
नौ नौ गोऽतिकृतिः प्रोक्ता च्छन्दो ह्युत्कृतिरुच्यते । वस्वीशाश्वैर्ममतनैः स्याद्भुजङ्गविजृम्भितम् ॥ १,२०९.
ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यतिः । गुहैः षड्भी रसैर्बाणैर्मोनाः षट्सगगा गणाः ॥ १,२०९.
चण्डवृत्तिप्रपातोऽसौ दण्डको नौ ततोऽगरः । रफेवृद्धान्तकादस्य व्यालजीमूतकादयः ॥ १,२०९.
श्रीगरुडमहापुराणम् २१० सूत उवाच । सससलगाश्च विषमे पादे यद्युपचित्रकम् । समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ ॥ १,२१०.
गः पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ ॥ १,२१०.
विषमे वेगवती सा गः समे भौ भो गगौ गणाः । पादेऽसमे तजौ रो गः समे मसौ जगौ गरुः । भवेद्भद्रविराट्केतुमती तु विषमे सजौ ॥ १,२१०.