रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत् । बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥ १,२०९.
पणवं स्यान्मनयगैर्मयूरसारिणी भवेत् । रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥ १,२०९.
मत्ता मभसगैर्युक्ता नरजा गो मनोरमा । पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥ १,२०९.
तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥ १,२०९.
उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ । भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥ १,२०९.
अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ । श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥ १,२०९.
मगना नो गो भ्रमरविलासितमुदाहृतम् । रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥ १,२०९.
वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका । रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम् । त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥ १,२०९.
रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ । ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम् । न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥ १,२०९.
वसुवेदैश्च विरतिर्मुदितवदना त्वियम् । ननररैः समाख्याता नयना यस्तथा भवेत् ॥ १,२०९.
सा तु कुसुमविचित्रा जलोद्धतगती रसैः । जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥ १,२०९.
भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् । प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥ १,२०९.
गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ । प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥ १,२०९.
ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् । मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥ १,२०९.
नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः । प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥ १,२०९.
जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः । मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥ १,२०९.
मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ । ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥ १,२०९.
असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः । ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥ १,२०९.
ननौ भनौ प्रहरणकलिकेयं लगौ तथा । वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥ १,२०९.
भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् । नरना रलगाः पादे शर्करी प्रतिपादिता ॥ १,२०९.
चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा । रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥ १,२०९.
स्यान्मणिगुणनिकरो मालिनी ननमा ययौ । वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥ १,२०९.
एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः । मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥ १,२०९.
स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ । नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥ १,२०९.
रसरुद्रैः शिखरिणी यमौ नसभला गुरुः । वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥ १,२०९.
दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ । षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥ १,२०९.
मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः । नर्दटकं नजभजा जलौ गो यतिरेव च ॥ १,२०९.
सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत् । भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥ १,२०९.
रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ । शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥ १,२०९.
छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत् । सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥ १,२०९.