नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा । विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका ॥ १,२०८.
बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका । सममात्रासमादिष्टं पदाकुलकमीरितम् ॥ १,२०८.
वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना । गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ १,२०८.
अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके । त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत् ॥ १,२०८.
षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः । सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः ॥ १,२०८.
मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥ १,२०८.
श्रीगरुडमहापुराणम् २०९ सूत उवाच । श्रीरुक्था गेन सा ज्ञेया उत्युक्था स्त्री गुरुद्वयम् । मो नारी रो मृगी मध्या मगौ कन्या प्रतिष्ठया ॥ १,२०९.
भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तयौ स्मृता । नयाभ्यां बालललिता गायत्रीच्छन्द एव हि ॥ १,२०९.
मसगैर्मदलेखा स्यादुष्णिक्छन्दः स्मृतं बुधैः । भौ गौ चित्रपदा ख्याता विद्युन्माला ममौ गगौ ॥ १,२०९.
माणवकं भात्तलगा म्नौ गौ हंसरुतं स्मृतम् । समानिका रजगला जरला गः प्रमाणिका । आभ्यामन्यद्वितानं स्यादनुष्टुप्छन्द ईरितम् ॥ १,२०९.
रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत् । बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥ १,२०९.
पणवं स्यान्मनयगैर्मयूरसारिणी भवेत् । रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥ १,२०९.
मत्ता मभसगैर्युक्ता नरजा गो मनोरमा । पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥ १,२०९.
तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥ १,२०९.
उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ । भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥ १,२०९.
अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ । श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥ १,२०९.
मगना नो गो भ्रमरविलासितमुदाहृतम् । रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥ १,२०९.
वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका । रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम् । त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥ १,२०९.
रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ । ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम् । न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥ १,२०९.
वसुवेदैश्च विरतिर्मुदितवदना त्वियम् । ननररैः समाख्याता नयना यस्तथा भवेत् ॥ १,२०९.
सा तु कुसुमविचित्रा जलोद्धतगती रसैः । जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥ १,२०९.
भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् । प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥ १,२०९.
गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ । प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥ १,२०९.
ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् । मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥ १,२०९.
नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः । प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥ १,२०९.
जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः । मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥ १,२०९.
मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ । ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥ १,२०९.
असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः । ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥ १,२०९.
ननौ भनौ प्रहरणकलिकेयं लगौ तथा । वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥ १,२०९.
भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् । नरना रलगाः पादे शर्करी प्रतिपादिता ॥ १,२०९.