अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति । कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः ॥ १,२०६.
समासाः षट्समाख्याताः स द्विजः कर्मधारयः । द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः ॥ १,२०६.
तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम् । ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी ॥ १,२०६.
भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः । तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः ॥ १,२०६.
देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता । ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि ॥ १,२०६.
हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः । आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली ॥ १,२०६.
विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा । बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ १,२०६.
कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके । जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि ॥ १,२०६.
भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः । वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा ॥ १,२०६.
द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम् । गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते ॥ १,२०६.
शुक्लकीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः । पटुः कमलभूः कर्ता सुमतो बहवः सुनौः ॥ १,२०६.
सत्या नाग्न्यस्तथा पुंसो ह्यभक्षयत दीर्घपात् । सर्वविश्वोभ ये चोभौ एकोन्यान्यतराणि च ॥ १,२०६.
डतरो डतमो नेमस्त्वः समोऽथ सिमेतरौ । पूर्वश्चैवाधरश्चैव दक्षिणश्चोत्तरावरौ ॥ १,२०६.
परश्चान्तरमप्येतद्यत्त्यत्किमदसस्त्विदम् । युष्मदस्मत्तत्प्रथमचरमाल्पतयार्धकाः ॥ १,२०६.
तथा कतिपयो द्वौ चेत्येवं सर्वादयस्तथा । शृणोत्याद्या जुहोतिश्च जहातिश्च दधात्यपि ॥ १,२०६.
दीप्यतिः स्तूयतिश्चैव पुत्त्रीयति धनीयति । त्रुट्यति म्रियते चैव चिचीषति निनीषति ॥ १,२०६.
सर्वे तिष्ठन्ति सर्वस्मै सर्वस्मात्सर्वन्तो गतः । सर्वेषां चैव सर्वस्मिन्नेवं विश्वादयस्तथा ॥ १,२०६.
पूर्वे पूर्वाश्च पूर्वस्मात्पूर्वस्मिन्पूर्व ईरितः । सूत उवाच । सुप्तिङन्तुं सिद्धरूपं नाममात्रेण दर्शितम् । कात्यायनः कुमारात्तु श्रुत्वा विस्तरमब्रवीत् ॥ १,२०६.
श्रीगरुडमहापुराणम् २०८ सूत उवाच । आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि । षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात् ॥ १,२०८.
आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः । त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात् ॥ १,२०८.
ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला । द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम् ॥ १,२०८.
आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये । उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत् ॥ १,२०८.
आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् । षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः । समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः ॥ १,२०८.
अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम् ॥ १,२०८.
भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका । पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ १,२०८.
उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके । सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम् ॥ १,२०८.
उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका । चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः ॥ १,२०८.
वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् । पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा ॥ १,२०८.
उसमे नश्च चपला विपुला लघुसप्तमा । निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ ॥ १,२०८.
षोडशलोऽचलधृतिर्मात्रासमकमुच्यते ॥ १,२०८.