स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके । हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १,२०५.
न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके । द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १,२०५.
भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः । तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १,२०५.
मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् । ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १,२०५.
आदेशा इड्बहिमहि धातुतोथ णिजादिवत् । नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १,२०५.
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि । भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १,२०५.
लडीरितो वर्तमाने स्मेनातीते च धातुतः । भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १,२०५.
विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत् । निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १,२०५.
लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति । स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १,२०५.
दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः । कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १,२०५.
सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १,२०५.
श्रीगरुडमहापुराणम् २०६ सूत उवाच । सिद्धोदाहरणं वक्ष्ये संहितादिपुरः सरम् । विप्राः स्वसागता वीदं सुत्तमं स्यात्पितॄषभः ॥ १,२०६.
ळकारो विश्रुता सेवं लाङ्गलीषा मनीपया । गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥ १,२०६.
शीतार्तश्च तवल्कारः सैन्द्री सौकार इत्यपि । वध्वासनञ्च पित्रर्थो लनुबन्धो नये जयेत् ॥ १,२०६.
नायको लवणं गावस्त एते न त ईश्वराः । देवीगृहमथो अत्र अ अवेहि पटू इमौ ॥ १,२०६.
अमी अश्वाः षडस्येति तन्न वाक्षड्दलानि च । तच्चरेत्तल्लु नातीति तज्जलं तच्छ्मशानकम् ॥ १,२०६.
सुगन्नत्र पचन्नत्र भवांश्छादयतीति च । भवाज्झनत्करश्चैव भवांस्तरति संस्मृतम् ॥ १,२०६.
भवांल्लिखति ताञ्चक्रे भवाञ्शेतेऽप्यनीदृशः । भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्चनम् ॥ १,२०६.
कश्चरेत्कष्टकारेण क कुर्यात्क फले स्थितः । कःशेते चैव कःषण्डः कस्को याति च गौरवम् ॥ १,२०६.
क इहात्र क एवाहुर्देवा आहुश्च भो व्रज । स्वभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूर्पतिः ॥ १,२०६.
अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति । कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः ॥ १,२०६.
समासाः षट्समाख्याताः स द्विजः कर्मधारयः । द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः ॥ १,२०६.
तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम् । ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी ॥ १,२०६.
भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः । तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः ॥ १,२०६.
देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता । ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि ॥ १,२०६.
हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः । आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली ॥ १,२०६.
विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा । बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ १,२०६.
कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके । जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि ॥ १,२०६.
भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः । वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा ॥ १,२०६.
द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम् । गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते ॥ १,२०६.