विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् । पलार्धं शुक्तिमिच्छन्ति तथाष्टौमाषकास्त्विति ॥ १,२०४.
पलं बिल्वञ्च मुष्टिः स्याद्द्वे पले प्रसृतिं वदेत् । अञ्जलिं कुडवञ्चैव विद्यात्पलचतुष्टयम् ॥ १,२०४.
अष्टमानं पलान्यष्टौ तच्च मानमिति स्मृतम् । चतुर्भिः कुडवैः प्रस्थ प्रस्थाश्चत्वार आढकः ॥ १,२०४.
काशपात्रञ्च संप्रोक्तो द्रोणश्चचतुराढके । तुला पलशतं प्रोक्तं भागो विंशत्पलः स्मृतः ॥ १,२०४.
मानमेवं विधं प्रोक्तं प्रस्थद्रव्येषु पण्डितैः । द्रवद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तितम् ॥ १,२०४.
भद्रदारु देवकाष्ठं दारु स्याद्देवदारुकम् । कुष्ठमामयमाख्यातं मांसीञ्च नलदंशनम् ॥ १,२०४.
शङ्खः शुक्तिनखः शङ्खो व्याघ्रो व्याघ्रनखः स्मृतः । पुरं पलङ्कषं विद्यान्महिषाक्षञ्च गुग्गुलुः ॥ १,२०४.
रसो गन्धरसो बोले सर्जः सर्जरसो मतः । प्रियङ्गुः फलिनी श्यामा गौरी कान्तेति चोच्यते ॥ १,२०४.
करञ्जौ नक्तमालः स्यात्पूतिकश्चिरबिल्वकः । शिग्रुः शोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः ॥ १,२०४.
जया जयन्ती शरणी निर्गुण्डी सिन्धुवारकः । मोरटा पीलुपर्णो च तुण्डी स्यात्तुण्डिकेरिका ॥ १,२०४.
मदनो गालवो बोधो घोटा घोटी च कथ्यते । चतुरङ्गुल सम्पाको व्याधिघाताभिसंज्ञकः ॥ १,२०४.
विद्यादारग्वधं राजवृक्षं रैवतसंज्ञकम् । दन्ती काकेन्दुतिक्ता स्यात्कण्टकी च विकङ्कतः ॥ १,२०४.
निम्बोऽरिष्टः समाख्यातः पटोलं कोलकं विदुः । वयस्था च विशल्या च च्छिन्ना छिन्नरुहा मता ॥ १,२०४.
वशा दन्त्यमृता चेति गुडूचीनामसंग्रहः । किराततिक्तकश्चैव भूनिम्बः काण्डतिक्तकः ॥ १,२०४.
सूत उवाच । नामान्येतानि च हरे वन्यानां भेषजां तथा । अतो व्याकरणं वक्ष्ये कुमारोक्तञ्च शौनक ॥ १,२०४.
श्रीगरुडमहापुराणम् २०५ कुमार उवाच । अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि । अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् । द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता । येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.
ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके । यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १,२०५.
पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके । यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १,२०५.
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके । ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १,२०५.
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,२०५.
पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे । एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,२०५.
वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती । अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १,२०५.
द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि । अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १,२०५.
नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता । चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,२०५.
तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १,२०५.
स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः । निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १,२०५.