काशीशं पुष्पकाशीशं विज्ञेयं नेत्त्रभेषजम् । धातुकाशीशकाशी च संज्ञेयं तच्च कीर्तितम् ॥ १,२०४.
सौराष्ट्री मृत्तिकाक्षारं काक्षी वै पङ्कपर्पटी । विद्यात्समाक्षिकं धातु ताप्यं ताप्युत्थसम्भवम् ॥ १,२०४.
शिला मनः शिला ज्ञेया नेपाली कुलटीति च । आलं मनस्तालकं वा हरितालं विनिर्दिशेत् ॥ १,२०४.
गन्धको गन्धपाषाणो रसः पारद उच्यते । ताम्रमौदुम्बरं शुल्बं विद्यान्म्लेच्छमुखं तथा ॥ १,२०४.
अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते । माक्षिकं मधु च क्षौद्रं तच्च पुष्परसं स्मृतम् ॥ १,२०४.
ज्येष्ठन्तु सोदकं तत्स्यात्काञ्जिकन्तु सुवीरकम् । सीता सितोपला चैव मत्स्यण्डीशर्करा स्मृता ॥ १,२०४.
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं तच्चतुर्जातमिष्यते ॥ १,२०४.
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः । कथितं पञ्चकोलञ्च कोलकं कोलसंज्ञया ॥ १,२०४.
प्रियङ्गुः कङ्गुका ज्ञेया कोरदूषश्च कोद्रवः । त्रिपुटः पुटसंज्ञश्च कलापो लङ्गको मतः ॥ १,२०४.
सतीनो वर्तुलश्चैव वेणुश्चापि प्रकीर्तितः । पिचुकं पितलं चाक्षं बिडालपदकं तथा ॥ १,२०४.
विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् । पलार्धं शुक्तिमिच्छन्ति तथाष्टौमाषकास्त्विति ॥ १,२०४.
पलं बिल्वञ्च मुष्टिः स्याद्द्वे पले प्रसृतिं वदेत् । अञ्जलिं कुडवञ्चैव विद्यात्पलचतुष्टयम् ॥ १,२०४.
अष्टमानं पलान्यष्टौ तच्च मानमिति स्मृतम् । चतुर्भिः कुडवैः प्रस्थ प्रस्थाश्चत्वार आढकः ॥ १,२०४.
काशपात्रञ्च संप्रोक्तो द्रोणश्चचतुराढके । तुला पलशतं प्रोक्तं भागो विंशत्पलः स्मृतः ॥ १,२०४.
मानमेवं विधं प्रोक्तं प्रस्थद्रव्येषु पण्डितैः । द्रवद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तितम् ॥ १,२०४.
भद्रदारु देवकाष्ठं दारु स्याद्देवदारुकम् । कुष्ठमामयमाख्यातं मांसीञ्च नलदंशनम् ॥ १,२०४.
शङ्खः शुक्तिनखः शङ्खो व्याघ्रो व्याघ्रनखः स्मृतः । पुरं पलङ्कषं विद्यान्महिषाक्षञ्च गुग्गुलुः ॥ १,२०४.
रसो गन्धरसो बोले सर्जः सर्जरसो मतः । प्रियङ्गुः फलिनी श्यामा गौरी कान्तेति चोच्यते ॥ १,२०४.
करञ्जौ नक्तमालः स्यात्पूतिकश्चिरबिल्वकः । शिग्रुः शोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः ॥ १,२०४.
जया जयन्ती शरणी निर्गुण्डी सिन्धुवारकः । मोरटा पीलुपर्णो च तुण्डी स्यात्तुण्डिकेरिका ॥ १,२०४.
मदनो गालवो बोधो घोटा घोटी च कथ्यते । चतुरङ्गुल सम्पाको व्याधिघाताभिसंज्ञकः ॥ १,२०४.
विद्यादारग्वधं राजवृक्षं रैवतसंज्ञकम् । दन्ती काकेन्दुतिक्ता स्यात्कण्टकी च विकङ्कतः ॥ १,२०४.
निम्बोऽरिष्टः समाख्यातः पटोलं कोलकं विदुः । वयस्था च विशल्या च च्छिन्ना छिन्नरुहा मता ॥ १,२०४.
वशा दन्त्यमृता चेति गुडूचीनामसंग्रहः । किराततिक्तकश्चैव भूनिम्बः काण्डतिक्तकः ॥ १,२०४.
सूत उवाच । नामान्येतानि च हरे वन्यानां भेषजां तथा । अतो व्याकरणं वक्ष्ये कुमारोक्तञ्च शौनक ॥ १,२०४.
श्रीगरुडमहापुराणम् २०५ कुमार उवाच । अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि । अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् । द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता । येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.