कृष्णार्जकः करालश्च कालमानः प्रकीर्तितः । प्राची बला नदीक्रान्ता काकजङ्घाथ वायसी ॥ १,२०४.
ज्ञेया मूषिकपर्णो तु भ्रमन्ती चाखुपर्णिका । विषमुष्टिर्द्रावणञ्च केशमुष्टिरुदाहृता ॥ १,२०४.
किंलिहीं कटुकीं विद्यादन्तकश्चाम्लवेतसः । अश्वत्था बहुपत्रा च विज्ञेया चामलक्यपि ॥ १,२०४.
अरूषक्रं पत्र शूकं क्षीरी राजादनं मतम् । महापत्रं दाडिमं च तमेव करकं वदेत् ॥ १,२०४.
मसूरी विदली शष्पा कालिन्दीति निरुच्यते । कण्टकाख्या महाश्यामा वृक्षपादीति वक्ष्यते ॥ १,२०४.
विद्या कुन्ती निकुम्भा च त्रिभङ्गी त्रिपुटी त्रिवृत् । सप्तला यवतिक्ता च चर्मा चर्मकसेति च ॥ १,२०४.
शङ्खिनी सुकुमारी च तिक्ताक्षी चाक्षिपीलुकम् । गवाक्षी चामृता श्वेता गिरिकर्णो गवादिनी ॥ १,२०४.
काम्पिल्लकोऽथ रक्ताङ्गो गुण्डा रोचनिकेति च । हेमक्षीरी स्मृता पीता गौरी वै कालदुग्धिका ॥ १,२०४.
गाङ्गेरुकी नागबला विशाला चेन्द्रवारुणी । तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्च रसाञ्जनम् ॥ १,२०४.
निर्यासो यश्च शाल्मल्याः स मोचरससंज्ञकः । प्रत्यक्पुष्पी खरी ज्ञेया अपामार्गो मयूरकः ॥ १,२०४.
सिंहास्यवृषवासाकमाटरूषकमादिशेत् । जीवको जीवशाकश्च कर्बुरञ्च शटीं विदुः ॥ १,२०४.
कट्फलं सोमवृक्षः स्यादग्निगन्धा सुगन्धिका । शताङ्गं शतपुष्पा च मिंसिर्मधुरिकामता ॥ १,२०४.
ज्ञेयं पुष्करमूलञ्च पुष्करं पुष्कराह्वयम् । यासोऽथ धन्वयासश्च दुष्पर्शोऽथ दुरालभा ॥ १,२०४.
वाकुची सोमराजी च सोमवल्लीति कीर्तिता । मार्कवः केशराजश्च भृङ्गराजो निगद्यते ॥ १,२०४.
प्रोक्तस्त्वेडगजस्तज्ज्ञैश्चक्रमर्दकसंज्ञखः । सुरङ्गीतगरः स्नायुः कलनाशा तु वायसी ॥ १,२०४.
महाकालः स्मृतो बेलस्तण्डुलीयो घनस्तनः । इक्ष्वाकुस्तिक्ततुम्बी स्यात्तिक्तालबुर्निगद्यते ॥ १,२०४.
धामार्गवोऽथ कोषातक्यथ यामिनी । विद्यात्कोशतकीभेदं कृतभेदनसंज्ञका ॥ १,२०४.
तथा जीमूतकाख्या च खुड्डाको देवताडकः । गृध्रनखी गृध्रनखी हिङ्गुकाकादनी मता ॥ १,२०४.
अश्वारिश्चैव बोद्धव्यः करवीरोऽश्वमारकः । सिन्धुः सैन्धवसिन्धूत्थमणिमन्थमुदाहृतम् ॥ १,२०४.
क्षारो यवाग्रजश्चैव यवक्षारोऽभिधीयते । सर्जिका सर्जिकाक्षारो द्वितीयः परिकीर्तितः ॥ १,२०४.
काशीशं पुष्पकाशीशं विज्ञेयं नेत्त्रभेषजम् । धातुकाशीशकाशी च संज्ञेयं तच्च कीर्तितम् ॥ १,२०४.
सौराष्ट्री मृत्तिकाक्षारं काक्षी वै पङ्कपर्पटी । विद्यात्समाक्षिकं धातु ताप्यं ताप्युत्थसम्भवम् ॥ १,२०४.
शिला मनः शिला ज्ञेया नेपाली कुलटीति च । आलं मनस्तालकं वा हरितालं विनिर्दिशेत् ॥ १,२०४.
गन्धको गन्धपाषाणो रसः पारद उच्यते । ताम्रमौदुम्बरं शुल्बं विद्यान्म्लेच्छमुखं तथा ॥ १,२०४.
अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते । माक्षिकं मधु च क्षौद्रं तच्च पुष्परसं स्मृतम् ॥ १,२०४.
ज्येष्ठन्तु सोदकं तत्स्यात्काञ्जिकन्तु सुवीरकम् । सीता सितोपला चैव मत्स्यण्डीशर्करा स्मृता ॥ १,२०४.
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं तच्चतुर्जातमिष्यते ॥ १,२०४.
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः । कथितं पञ्चकोलञ्च कोलकं कोलसंज्ञया ॥ १,२०४.
प्रियङ्गुः कङ्गुका ज्ञेया कोरदूषश्च कोद्रवः । त्रिपुटः पुटसंज्ञश्च कलापो लङ्गको मतः ॥ १,२०४.
सतीनो वर्तुलश्चैव वेणुश्चापि प्रकीर्तितः । पिचुकं पितलं चाक्षं बिडालपदकं तथा ॥ १,२०४.