कथिता पिप्पली तज्ज्ञैस्तन्मूलं ग्रन्थिकं स्मृतम् । ऊषणं मरिचं ज्ञेयं शुण्ठी विश्वं महौषधम् ॥ १,२०४.
व्योषं कटुत्रयं विद्यात्त्र्यूषणं तच्च कीर्त्यते । लाङ्गली हलिनी च स्याच्छेयसी गज पिप्पली ॥ १,२०४.
त्रायन्ती त्रायमाणा स्यादुत्साया सुवहा स्मृता । चित्रकः स्याच्छिखी वह्निरग्निसंज्ञाभिरुच्यते ॥ १,२०४.
षड्ग्रन्थोग्रा वचा ज्ञेया श्वेता हैमवतीति च । कुटजो वृक्षकः शक्रो वत्सको गिरिमाल्लिका ॥ १,२०४.
कलिङ्गेन्द्रयवारिष्टं तस्य बीजानि लक्षयेत् । मुस्तक्तो मेघनामा स्यात्कौन्ती ज्ञेया हरेणुका ॥ १,२०४.
एला च बहुला प्रोक्ता सूक्ष्मैला च तथा त्रुटिः । पद्मा भार्ङ्गो तथा काञ्जी ज्ञेया ब्राह्मणयष्टिका ॥ १,२०४.
मूर्वा मधुरसा ज्ञेया तेजनी तिक्तवल्लिका । महानिम्बो बृहन्निम्बो दीप्यकः स्याद्यवानिका ॥ १,२०४.
विडङ्गं क्रिमशत्रुः स्याद्रामठं हिङ्गुरुच्यते । अजाजी जीरकं ज्ञेया कारवी चोपकुञ्चिका ॥ १,२०४.
विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी । तगरं स्यान्नतं वक्रं चोचं त्वचवराङ्गकम् ॥ १,२०४.
उदीच्यं बालकं प्रोक्तं ह्रीबेरं चाम्बुनामभिः । पत्रकं दलसंज्ञाभिश्चारकं तस्कराह्वयम् ॥ १,२०४.
हेमाभं नागसंज्ञाभिर्नागकेशर उच्यते । असृक्कुङ्कुममाख्यातं तथा काश्मीरबाह्लिकम् ॥ १,२०४.
अयो लोहं समुद्दिष्टं यौगिकैर्लोहनामभिः । पुरं कुटनटं विद्यान्महिषाक्षः पलङ्कषा ॥ १,२०४.
काश्मरी कट्फला ज्ञेया श्रीपर्णो चेति कीर्तिता । शल्लकी गजभक्ष्या च पत्री च सुरभी स्त्रवः ॥ १,२०४.
धात्रीमामलकीं विद्यादक्षश्चैव विभीतकः । पथ्याभया च विज्ञेया पूतना च हरीतकी ॥ १,२०४.
त्रिफला फलमेवोक्ता तच्च ज्ञेयं फलत्रिकम् । उदकीर्यो दीर्घवृन्तः करञ्जश्चेति कीर्तितः ॥ १,२०४.
यष्टी यष्ट्याह्वयं प्रोक्तं मदुकं मधुयष्टिका । धातकी ताम्रपर्णो स्यात्समङ्गा कुञ्जरा मता ॥ १,२०४.
सितं मलयजं शीतं गोशीर्षं सितचन्दनम् । विद्याद्रक्तं चन्दनं च द्वितीयं रक्तचन्दनम् ॥ १,२०४.
काकोली च स्मृता वीरा वयस्या चार्कपुष्पिका । शृङ्गी कर्कटशृङ्गी च महाघोषा च कीर्तिता ॥ १,२०४.
तुगाक्षीरी शुभा वांशी विज्ञेया वंशलोचना । मृद्विका च स्मृता द्राक्षा तथा गोस्तनिका मता ॥ १,२०४.
स्यादुशीरं मृणालञ्च सेव्यं लामज्जकं तथा । सारञ्च गोपवल्ली च गोपी भद्रा च कथ्यते ॥ १,२०४.
दन्ती कटङ्कटेरी च ज्ञेया दारुनिशेति च । हरिद्रा रजनी प्रोक्ता पीतिका रात्रिनामिका ॥ १,२०४.
वृक्षादनी छिन्नरुहा नीलवल्ली रसामृता । वसुकोटश्च विज्ञेयो वाशिरः काम्पिल्लो मतः ॥ १,२०४.
पाषाणभेदकोऽरिष्टो ह्यस्मभित्कुट्टभेदकः । घण्टाकः शुष्कको ज्ञेयो वचोऽथ सूचको मतः ॥ १,२०४.
सुरसो बीजकश्चैव पीतशालोऽभिधीयेत । वज्रवृक्षो महावृक्षः स्नुही स्नुक्च सुधा गुडा ॥ १,२०४.
तुलसीं सुरसां विद्यादुपस्थेति च कथ्यते । कुठेरकोऽप्यर्जुनकः पर्णो सौगन्धिपर्णिक्रः ॥ १,२०४.
नीलश्च सिन्धुवारश्च निर्गुण्डीति सुगन्धिका । ज्ञेया सुगन्धिपर्णोति वासन्ती कुलजेति च ॥ १,२०४.
कालीयकं पीतकाष्ठं कतकाख्यः पुनः स्मृतः । गायत्रीखदिरो ज्ञेयस्तद्भेदः कन्दरो मतः ॥ १,२०४.
इन्दी वरं कुवलयं पद्मं नीलोत्पलं स्मृतम् । सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥ १,२०४.
अजवर्णो भवेदूर्जो वाजिकर्णोऽश्वकर्णकः । श्लेष्मान्तकस्तथा शेलुर्बहुवारश्च कथ्यते ॥ १,२०४.
सुनन्दकः ककुद्भद्रं छत्राकी छत्रसंज्ञका । कबरी कुम्भको धृष्टः क्षुद्विधो धनकृत्तथा ॥ १,२०४.