दुग्धं वितुषमाषैश्च शिम्बाबीजैश्च साधितम् । अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥ १,२०२.
श्रीगरुडमहापुराणम् २०३ हरिरुवाच । या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः । लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥ १,२०३.
शुनोऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा । कृमिजालं पातयति सकलं नात्र संशयः ॥ १,२०३.
गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात् ॥ १,२०३.
वरुणफलस्यरसं करेण मथितं शिव । चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ॥ १,२०३.
व्रणञ्च शमयेद्रुद्र जयायाः पूरणात्तथा । गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ॥ १,२०३.
समसूर शालिबीजं पीतं तक्रेण घर्षितम् । क्षीरे गोमहीषस्यैव गोः पुंसश्च हितं भवेत् ॥ १,२०३.
पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव । वारिस्फोटं हयानाञ्च केसराणां विनाशयेत् ॥ १,२०३.
घृतकुमारीपत्रमेव दत्तं सलक्षणं हर । तुरगमकेसराणां कण्डूनंश्येन्न संशयः ॥ १,२०३.
श्रीगरुडमहापुराणम् २०४ सूत उवाच । एवं धन्वन्तरिः प्राह सुश्रुतायच वैद्यकम् । अत नामानि वक्ष्यामि ओषधीनां समासतः ॥ १,२०४.
स्थिरा विदारिगन्धा च शालपण्यशुमत्यपि । लाङ्गली कलसी चैव क्रोष्टुपुच्छा गुहा मता ॥ १,२०४.
पुनर्नवाथ पर्षाभूः कठिल्या कारुणा तथा । एरण्डश्चोरुवूकः स्यादामर्दो वर्धमानकः ॥ १,२०४.
झषा नागबला ज्ञेया श्वदंष्ट्रा गोक्षुरो मतः । शतावरी वरा भीरु पीवरीन्दीवरी वरी ॥ १,२०४.
व्याघ्री तु बृहती कृष्णा हंसपादी मधुस्त्रवा । धामनी कण्टकारी स्यात्क्षुद्रा सिंही निदिग्धिका ॥ १,२०४.
वृश्चिका त्र्यमृता काली विषघ्नी सर्पदंष्ट्रिका । मर्कटी चात्मगुप्ता स्यादार्षेयी कपिकच्छुका ॥ १,२०४.
मुद्गपर्णो क्षुद्रसहा माषपर्णो महासहा । त्यजा परा च महा ज्ञेया दण्डयोन्यङ्कसंज्ञया । न्यग्रोधस्तु वटो ज्ञेयः अश्वत्थः कपिलो मतः ॥ १,२०४.
प्लक्षोऽथ गर्दभाण्डः स्यात्पर्कटी च कपीतनः । पार्थस्तु ककुभो धन्वि विज्ञेयोर्ऽजुननामभिः ॥ १,२०४.
नन्दीवृक्षः प्ररोही स्यात्पुष्टिकारीति चोच्यते । वञ्जुलो वेतसो ज्ञेयो भल्लातश्चाप्यरुष्करः ॥ १,२०४.
लोध्रः सारवको धृष्टस्तिरीटश्चापि कीर्तितः । बृहत्फला महाजम्बूर्ज्ञेया बालफला परा ॥ १,२०४.
तृतीया जलजम्बूः स्यान्नादेयी सा च कीर्तिता । कणा कृष्णोपकुञ्ची च शौण्डी मागधिकेति च ॥ १,२०४.
कथिता पिप्पली तज्ज्ञैस्तन्मूलं ग्रन्थिकं स्मृतम् । ऊषणं मरिचं ज्ञेयं शुण्ठी विश्वं महौषधम् ॥ १,२०४.
व्योषं कटुत्रयं विद्यात्त्र्यूषणं तच्च कीर्त्यते । लाङ्गली हलिनी च स्याच्छेयसी गज पिप्पली ॥ १,२०४.
त्रायन्ती त्रायमाणा स्यादुत्साया सुवहा स्मृता । चित्रकः स्याच्छिखी वह्निरग्निसंज्ञाभिरुच्यते ॥ १,२०४.
षड्ग्रन्थोग्रा वचा ज्ञेया श्वेता हैमवतीति च । कुटजो वृक्षकः शक्रो वत्सको गिरिमाल्लिका ॥ १,२०४.
कलिङ्गेन्द्रयवारिष्टं तस्य बीजानि लक्षयेत् । मुस्तक्तो मेघनामा स्यात्कौन्ती ज्ञेया हरेणुका ॥ १,२०४.
एला च बहुला प्रोक्ता सूक्ष्मैला च तथा त्रुटिः । पद्मा भार्ङ्गो तथा काञ्जी ज्ञेया ब्राह्मणयष्टिका ॥ १,२०४.
मूर्वा मधुरसा ज्ञेया तेजनी तिक्तवल्लिका । महानिम्बो बृहन्निम्बो दीप्यकः स्याद्यवानिका ॥ १,२०४.
विडङ्गं क्रिमशत्रुः स्याद्रामठं हिङ्गुरुच्यते । अजाजी जीरकं ज्ञेया कारवी चोपकुञ्चिका ॥ १,२०४.
विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी । तगरं स्यान्नतं वक्रं चोचं त्वचवराङ्गकम् ॥ १,२०४.
उदीच्यं बालकं प्रोक्तं ह्रीबेरं चाम्बुनामभिः । पत्रकं दलसंज्ञाभिश्चारकं तस्कराह्वयम् ॥ १,२०४.